2026-02-26 01:30:48 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३८</ignore>
<ignore>सामान्यवेदान्त - उपनिषदः</ignore>
<verse>मम प्रतिष्ठा भुव आण्डकोशा वि चैमि सं च हि नु यो विरश्पी ।
अहं न्वहिं पर्वते शिश्रियाणमुग्रो न्वहं तवसावस्युरद्धा ॥ ९ ॥</verse>
<verse>प्रवङ्क्षणा अभिदं पर्वतानां यत्सीमिन्द्रो अकरोदनीकैः ।
को अद्धा वेद क इह प्रवोचत् को अश्नवदभिमातिं विजघ्नुषः ॥</verse>
<verse>को मे अवो दाशुषो विष्वगूतीरित्था ददश्रे भुवनाधि विश्वा ।
रूपं रूपं जनुषा बोभवीमि मायाभिरेको अभिचाकशानः ॥ ११ ॥</verse>
<verse>विश्वं विचक्षे यमयन्नभीको नेशे मे कश्च महिमानमन्यः ।
अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ॥१२॥</verse>
<verse>अहमु ह प्रवतिं यज्ञियामियां
अहं वेद भुवनस्य नाभिम् ।
आपिः पिता सूरहमस्य विष्वङ्
अहं दिव्या आन्तरिक्ष्यास्तुका वहम् ॥ १३ ॥</verse>
<verse>अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम् ।
अहं पचामि सरसः परस्य यदिदेतीव सरिरस्य मध्ये ॥ १४ ॥</verse>
<verse>अहमिन्नु परमो जातवेदा यमध्वर्युरभिलोकं पृणैधीत् ।
यमन्वाह नभसो न पक्षी काष्ठा भिन्दन् गोभिरितोऽमुतश्च ॥ १५ ॥</verse>
<verse>अहमु यन्नपतता रथेन द्विषडारेण प्रधिनैकचक्रः ।
अहमिन्नु दिद्युतानो दिवे दिवे तन्वं पुपुष्यानमृतं वहामि ॥१६॥</verse>
<verse>अहं दिशः प्रदिश आदिशश्च विष्वक् पुनानः पर्येमि लोकम् ।
अहं विश्वा ओषधीर्गर्भ आधां याभिरिदं विनुयुर्दाशुषः प्रजाः ॥</verse>
<verse>अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः ।
यो मा वेद निहितं गुहा चित् स इदित्था बोभवीदाशयध्यै ॥ १८ ॥</verse>
</page>