This page has been fully proofread once and needs a second look.

<page>
<ignore>
बाष्कलमन्त्रोपनिषत्
 
</ignore>
<ignore>
३७.
 
</ignore>
<p>
देवीरभिष्टये "&quot; इत्येवमादिं कृत्वा अथर्ववेदमधीयते । अय:द्भ्यः स्थावरजङ्गमो

भूतग्रामः संभवति । तस्मात् सर्वमापोमयं भूतं सर्वं भृग्वङ्गिरोमयं अन्तरैते

त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यविबिति प्रकृतिरपामोङ्कारेण चैतस्माद्व्यासः ॥
</p>
<trailer text="PRANAVA_END">
इति प्रणवोपनिषत् समाप्ता
 
</trailer>
<title text="BASKALA_START">
बाष्कलमन्त्रोपनिषत्
 
</title>
<verse>
मेधातिथिं काण्वमिन्द्रो जहार द्या. मेषभूयोपगतो विदानः ।

तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १ ॥
</verse>
<verse>
को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति ।

सुशेवमिच्चक्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २ ॥
</verse>
<verse>
नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति ।

तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवावद्ब्रह्म रिषा मयस्वि ॥
</verse>
<verse>
इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसास हिस्तपसा मा विचक्षे ।

स इद्देव ऋमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४ ॥
</verse>
<verse>कु
हे मावशमितो नयाtai कुहेव ते चित्रतमप्रतिष्ठा ।
 

कुहाचिदे ष स्वपिता पिता नो यो न वेद न हृतं हरन्तम् ॥५॥
</verse>
<verse>
प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा ।
नमामि

न मामिमे
नूनमित्था पथो विदुयेंर्ये मा न यन्ति मिथु चाकशानाः ॥
</verse>
<verse>
परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः ।

न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७ ॥
</verse>
<verse>
अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् ।

अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८ ॥
 
</verse>
</page>