This page has not been fully proofread.

बाष्कलमन्त्रोपनिषत्
 
३७.
 
देवीरभिष्टये " इत्येवमादिं कृत्वा अथर्ववेदमधीयते । अय: स्थावरजङ्गमो
भूतग्रामः संभवति । तस्मात् सर्वमापोमयं भूतं सर्वं भृग्वङ्गिरोमयं अन्तरैते
त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यविति प्रकृतिरपामोङ्कारेण चैतस्माद्वयासः ॥
इति प्रणवोपनिषत् समाप्ता
 
बाष्कलमन्त्रोपनिषत्
 
मेधातिथिं काण्वमिन्द्रो जहार द्या. मेषभूयोपगतो विदानः ।
तमन्य इत्तमनं परिप्राट् पद एनं नियुयुजे परस्मिन् ॥ १ ॥
को ह स्मैष भवसि व्यवायो नावायो म इह शश्वदस्ति ।
सुशेवमिच्चक्रमसि प्रपश्यन्नित्था न कश्चोरणमाचचक्षे ॥ २ ॥
नेमामस्पृक्षदिदुदस्यमानः को अद्धामूमभिचङ्क्रमीति ।
तदिच्छाधि यो असि सर्ववित्तमो न त्वाश्नवा रिषा मयस्वि ॥
इन्द्रो नृचक्षा वृषभस्तुराषाट् प्रसास हिस्तपसा मा विचक्षे ।
स इदेव ऋमन्वयन्तं प्रभीमकर्मा तवसोऽपविद्धात् ॥ ४ ॥
हे मावशमितो नया कुहेव ते चित्रतमप्रतिष्ठा ।
 
कुहाचिदे पिता पिता नो यो न वेद न हृतं हरन्तम् ॥५॥
प्रत्यङ्ङवाङ्प्राङितरौ च नेह नाहमेनाननुपतस्थिरद्धा ।
नमामि नूनमित्था पथो विदुयें मा न यन्ति मिथु चाकशानाः ॥
परः स्मियानो अविवरस्य शूकं किं सीमिच्छरणं मन्यमानः ।
न ह त्वाहमप्रणीय स्वविष्ठामित्था जहामि शपमानमिन्नु ॥ ७ ॥
अहमस्मि जरितॄणामु दावा अहमाशिरमहमिदं दधग्वान् ।
अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८ ॥