This page has been fully proofread once and needs a second look.

<page>
<ignore>
३६
 
</ignore>
<ignore>
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<p>
देवानामेकाक्षरा श्वेतवर्णा च व्याख्याता । द्वौ द्वादशकौ वर्गावेतद्वै व्याकरणं

धात्वर्थवचनं शैक्षं छन्दो वचनं चाथोत्तरौ द्वौ द्वादशकौ वर्गोंगौ वेदरहसिkI <add>(2?)
</add>
व्याख्याता मन्त्रकल्पो ब्राह्मणमृग्यजुःसामाथर्वाण्येषा व्याहृतिश्चतुर्णा
णां
वेदानामानुपूर्येण । ॐ भूर्भुवस्सुवरिति व्याहृतयः ॥
 
</p>
<p>
असमीक्ष्य प्रवल्हितानि श्रूयन्ते द्वापरादावृषीणामेकदेशो दोषयतीह

चिन्तामापेदे । त्रिभिः सोमः पातव्यः समाप्तमिव भवति । तस्मादृग्य-

जुस्सामान्यपक्रान्ततेजांस्यासंस्तत्र महर्षयः परिदेवयाञ्चक्रिरे । महच्छोकभयं

प्राप्ताः स्मो न चैतत्सर्वैः समभिहितं ते वयं भगवन्तमेवोपधावाम । सर्वेषामेव

शर्म भवानिति । ते तथेत्युक्त्वा तूष्णीमतिष्ठन्नानुपसन्नेभ्य इत्युपोपसीदामेति

नीचैर्बभूवुः । स एभ्य उपनीय प्रोवाच । मामिकामेव व्याहृतिमादितः

कृणुध्वमित्येवं मामका अधीयन्ते । नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्य

ऋत्विजः पराभवन्ति । यजमानो रजसापध्वस्यति श्रुतिश्चापध्वस्तापतिष्ठ-

तीत्येवमेवोत्तरोत्तराद्योगाल्लोकं तोकं प्रशाध्वमित्येवं प्रतापो न पराभविष्य -

तीति । तथाह भगवन्निति प्रतिपेदिरे आप्याययंस्ते तथा वीतशोकभया

बभूवुः । तस्माद्ब्रह्मवादिन ओङ्कारमादितः कुर्वन्ति ॥
 
66
 
</p>
<p merge-next="true">
किं दैवतमित्यृचामग्निर्देदैवतं तदेव ज्योतिर्गायत्रं छन्दः पृथिवी स्थानं

&quot;
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं र त्नधातमम् । "&quot; इत्येवमादिं

कृत्वा ऋग्वेदमधीयते । यजुषां वायुर्देदैवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्षं

स्थानं " &quot;इषे त्वोर्जे त्वा वायवः स्थोपायवः स्थ देवो वः सविता प्रार्पयतु

श्रेष्ठतमाय कर्मणे"&quot; इत्येवमादिं कृत्वा यजुर्वेदमधीयते । साम्नामादित्यो

दैवतं तदेव ज्योतिर्जागतं छन्दो द्यौः स्थानं " &quot;म्ग्न आयाहि वीतये गृणानो

हव्यदातये । निहोता सत्सि बर्हिषि । "&quot; इत्येवमादिं कृत्वा सामवेदमधीयते ।

अथर्वणां चन्द्रमा दैवतं तदेव ज्योतिः सर्वाणि छन्दांस्यापः स्थानं " &quot;शन्नो
 
</p>
<ignore>
66
 
</ignore>
</page>