2026-02-08 07:39:46 by ambuda-bot
This page has not been fully proofread.
३६
सामान्यवेदान्त-उपनिषदः
देवानामेकाक्षरा श्वेतवर्णा च व्याख्याता । द्वौ द्वादशकौ वर्गावेतद्वै व्याकरणं
धात्वर्थवचनं शैक्षं छन्दो वचनं चाथोत्तरौ द्वौ द्वादशकौ वर्गों वेदरहसिक (2)
व्याख्याता मन्त्रकल्पो ब्राह्मणमृग्यजुःसामाथर्वाण्येषा व्याहृतिश्चतुर्णा
वेदानामानुपूर्येण । ॐ भूर्भुवस्सुवरिति व्याहृतयः ॥
असमीक्ष्य प्रवल्हितानि श्रूयन्ते द्वापरादावृषीणामेकदेशो दोषयतीह
चिन्तामापेदे । त्रिभिः सोमः पातव्यः समाप्तमिव भवति । तस्मादृग्य-
जुस्सामान्यपक्रान्ततेजांस्यासंस्तत्र महर्षयः परिदेवयाञ्चक्रिरे । महच्छोकभयं
प्राप्ताः स्मो न चैतत्सर्वैः समभिहितं ते वयं भगवन्तमेवोपधावाम । सर्वेषामेव
शर्म भवानिति । ते तथेत्युक्त्वा तूष्णीमतिष्ठन्नानुपसन्नेभ्य इत्युपोपसीदामेति
नीचैर्बभूवुः । स एभ्य उपनीय प्रोवाच । मामिकामेव व्याहृतिमादितः
कृणुध्वमित्येवं मामका अधीयन्ते । नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्य
ऋत्विजः पराभवन्ति । यजमानो रजसापध्वस्यति श्रुतिश्चापध्वस्तापतिष्ठ-
तीत्येवमेवोत्तरोत्तराद्योगाल्लोकं तोकं प्रशाध्वमित्येवं प्रतापो न पराभविष्य -
तीति । तथाह भगवन्निति प्रतिपेदिरे आप्याययंस्ते तथा वीतशोकभया
बभूवुः । तस्माद्ब्रह्मवादिन ओङ्कारमादितः कुर्वन्ति ॥
66
किं दैवतमित्यृचामग्निर्देवतं तदेव ज्योतिर्गायत्रं छन्दः पृथिवी स्थानं
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं र तमम् । " इत्येवमादिं
कृत्वा ऋग्वेदमधीयते । यजुषां वायुर्देवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्षं
स्थानं " इषे त्वोर्जे त्वा वायवः स्थोपायवः स्थ देवो वः सविता प्रार्पयतु
श्रेष्ठतमाय कर्मणे" इत्येवमादिं कृत्वा यजुर्वेदमधीयते । साम्नामादित्यो
दैवतं तदेव ज्योतिर्जागतं छन्दो द्यौः स्थानं " अम्न आयाहि वीतये गृणानो
हव्यदातये । निहोता सत्सि बर्हिषि । " इत्येवमादिं कृत्वा सामवेदमधीयते ।
अथर्वणां चन्द्रमा दैवतं तदेव ज्योतिः सर्वाणि छन्दांस्यापः स्थानं " शन्नो