This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
प्रणवोपनिषत्
 
</ignore>
<ignore lang="sa">
३५
 
</ignore>
<p lang="sa">
सर्वदैवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते

नित्यं स गच्छेत् पदमनामकम् । ओङ्कारस्योत्पत्तिं विप्रो यो न जानाति

तत्पुनरुपनयनं तस्माद्ब्राह्मणवचनमादर्तव्यम् । यथा लातव्यो गोतोत्रो ब्राह्मणः ।

पुत्रो गायलंत्रं छन्दः शुक्लो वर्णः । पुंसो वत्सो रुद्रो देवता । ओङ्कारो

वेदानां उत्तरोपनिषदं व्याख्यास्यामः । को धातुरित्याप्तेर्धातुरवति-

मप्येके । रूपसामान्याद्यर्थसामान्यान्यन्यदीयस्तस्मादापेरोङ्कारः सर्वमाप्नो-

तीत्यर्थः । कृदन्तमर्थवत्प्रातिपदिकमदर्शनं प्रत्ययस्य नाम संपद्यते । निपातेषु

चैनं वैय्याकरणा उक्षत्तं समामनन्ति । तदव्ययीभूतमन्वर्थवाची शब्दो न

व्येति कदाचनेति ।
 
</p>
<verse lang="sa">
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
 

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
 
</verse>
<p lang="sa" merge-next="true">
को विकारी च्यवते प्रकारणमाप्नोतिराकारपकारौ विकार्यौ

आदितः ओकारो विक्रियते । द्वितीयो मकार एवं द्विवर्ण एकाक्षर

ओमित्योङ्कारो निर्वृत्तः । कतिमात्र इत्यादेस्तिस्रो मात्रा: अभ्याधाने हि

प्
लवते । मकारश्चतुर्थी किं स्थानमित्युभावोष्ठौ स्थानमाधानकरणी / च

द्विः स्थानं सन्ध्यक्षरमवर्णलेशः कण्ठ्यो यथोक्तशेषः पूर्वो विवृत्तकरणस्थितश्च

द्वितीयः स्पृष्टकरणस्थितश्च । नायं योगे विद्युत आख्यातोपसर्गानुदात्तः

स्वरितलिङ्गविभक्तिवचनानि च संच्छिन्नाध्यायिन आचार्याः पूर्वे बभूवुः ।

श्रवणादेवं प्रतिपद्यन्ते । न कारणं प्रयच्छन्त्यथापरपक्षीयाणां कविः पञ्चाल-

चण्ड: परिपृच्छको बभूवांबु : पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्विति ।

तद्वाच्युपलक्षयेत् वर्णाक्षरपदाङ्कशो विभक्त्यामृषिनिषेवितामिति वाचं

स्तुवन्ति । तस्मात् कारणं ब्रूमो वर्णानामयमिदं भविष्यतीति षडङ्ग-

विदस्तत्तथाधीमहि । किं छन्द इति । गायत्रं हि छन्दो गायत्री वै
 
</p>
</page>