This page does not need to be proofread.

<page>
<p lang="sa">
२७२
 
</p>
<p lang="sa">
वैष्णव- उपनिषदः
 
</p>
<p lang="sa">
देवता आधिदैविकेन रूपेण सखीरूपं विधायोपसेवमाना भवन्ति ।

तस्यां भूम्यां सुरतानन्द सुखमनुभवन्तो भवन्ति । श्रीराधिकायाः

रसिकानन्देन सह देहात्समुत्पन्नाः सख्यो दृष्टवती कलावती सोत्साहा

प्रेमसंवलिता लज्जावती गुणवती गुणाढ्या भवन्ति । अन्या अनेकसख्यो

रतिसुखमनुभवन्त्यो भावापन्ना भवन्ति । तदुपरि सोपानपरम्परा चत्वरे

आस्ते । अत्यन्तसुखश्रेणिसञ्चारा सोपानपरम्परा रत्नावलीभूषिता भवति ।

रतिसुखसंपत्तिप्रतिकूजा अनेकभूमयो योजिताः । एवंविधं मण्डलं द्वादशद्वा-

रयुतम् । द्वादशद्वारे द्वादश श्रेणिसञ्चारा भवन्ति । अतः परम्पराश्रेणिसञ्चारो

भवति । तन्मण्डलं यदेतत षड्गुणप्रसिद्धं भवति । षड्गुणाः षडृतवः

उपसेवमाना भवन्ति । एतस्मिन् मण्डले पूर्वतः सखीरूपं विधाय सूर्यः

सुकोमलैः किरणैरुपसेवमान आस्ते । तस्य मण्डलस्योत्तरतश्चन्द्रः

उपसेवमानो भवति । एतस्मिन् मण्डले पश्चिमतोऽग्निराधिदैविकेन रूपेण

उपसेवमानो भवति । ग्रहास्तास्तारका अन्यानि नक्षत्राण्याधिदैविकं रूपं

विधाय सदा उपसेवमाना भवन्ति । इन्द्रोऽपि सखीरूपं विधाय देवाङ्गनाभिः

सह विमानावलीपूपविश्य सदोपसेवमानो

सदोपसेवमानो भवति । पितामहोऽपि

सूक्ष्मरूपं विधायान्तरिक्षे तल्लोकदर्शनाकाङ्क्षो भवति निरन्तरम् । अन्ये

दिक्पालाः संसिद्धा निरन्तरमाधिदैविकेन रूपेण तन्मण्डलमुपमेवमाना-

स्तन्मण्डललोकानन्दमग्ना भवन्ति । तन्मण्डलोपासका भक्ता अन्यं न

भजेरन् । अन्यधर्मासक्ता इदं मण्डलं न जानन्ति । सा लक्ष्मीः पुनरुवाचेदम् ।

ये मण्डलमुपासते ते किं कर्म कुर्वन्तो भवन्ति । स होवाच । तेऽनन्योपासका:

भवन्ति । अनन्यभजनसिद्धा आत्मभावा भवन्ति । आत्मभावा मण्डल-

मुपासते । आत्मानात्मभावो भवेत् । अतितरमात्मानन्दे मझा अन्य-

रसं न भावयन्ति । आत्मानन्दे मग्ना अभक्तान स्पृशन्ति । आत्मानन्दे
 
</p>
</page>