This page has not been fully proofread.

पारमात्मिकोपनिषत्
 
नृसिंहतापनीयोपनिषदि -
 
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
 
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ इति ॥
 
१३३
 
तत्रैव -- " अथ कस्मादुच्यत उग्रमिति । स होवाच प्रजापतिः-
यस्मात्स्वमहिम्ना सर्वान् लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि
उद्गह्णाति अजस्रं सृजति विसृजति वासयति उदग्राह्यत उद्गृह्यते ।
स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
 
मृडा जरित्रे सिंह स्तवानो अन्यं ते अस्मन्निवपन्तु सेनाः ॥
तस्मादुच्यत उग्रमिति ॥ "
 
'अथ कस्मादुच्यते वीरमिति । यस्मात्स्वमहिम्ना सर्वान् लोकान्
सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति
विसृजति वासयति । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ।
तस्मादुच्यते वीरमिति ॥
 
66
 
1
 
"
 
अथ कस्मादुच्यते महाविष्णुमिति । यस्मात्स्वमहिम्ना सर्वान्
लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि व्याप्नोति व्यापयति
स्नेहो यथा पललपिण्डं शान्तमूलमोतं प्रोतमनुव्याप्तं व्यतिषिक्तो व्याप्यते
व्यापयते ।
 
यस्मान्न जातः परो अन्यो अस्ति
 
य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानः
 
त्रीणि ज्योतीष सचते स षोडशी ॥
 
तस्मादुच्यते महाविष्णुमिति ॥
 
"