This page has not been fully proofread.

१३२
 
वैष्णव- उपनिषदः
 
विष्णोर्मायया आश्चर्यकारिण्या वैष्णव्या विद्यया मन्त्रेण सर्वान्
 
तान् पाशानवयजामहे अधस्तात्कुर्मः ।
 
यदन्तस्तमशेषेण वाङ्मयं देववैदिकम् ।
 
तस्मै व्यापक मुख्याय मन्त्राय महते नमः ॥
 
66
 
ननु " हरि हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् ।
ब्रह्म सरूपमनु मेदमागात् । " इत्यादिषु हरिं नृसिंहं हरन्तं शरभरूपेण ईशानं
रुद्रं देवा अनुयान्ति गतिं कुर्वन्ति । अतः सर्वसंहारकारको रुद्र एवेति
चेत् तदसत् ।
 
पूर्वापरपरामृष्टशब्दानां कुरुते मतिम् । इति ।
 
पूर्वानुवाके- " भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा
 
--
 
66
 
66
 
66
 
1
 
निविष्टः । " इत्यारभ्य तमेव मृत्युममृतं तमाहुः । तं भर्तारं तमु
गोप्तारमाहुः " इत्यादिषु भर्तृशब्देन " व्यष्टभ्नाद्रोदसी विष्णवे । दार्थ
पृथिवीमभितो मयूखैः " इति स्वकान्त्यैवावतीर्य तेन रूपेण जगद्धरणम् " किं
तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती
रोदसी उभे । वाताद्विष्णोर्बलमाहुः । " इत्यारभ्य । " पृच्छामि त्वा परं
मृत्युम् ! अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि संप्रति ।
अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अभिरेवावमो मृत्युः ।
चन्द्रमाश्चतुरुच्यते ॥ " इति परमात्मनो विष्णोरेव परं मृत्युत्वं प्रतिपादितम् ।
देवशब्दः सामान्यवाचीति एको देव इत्युक्तम् ।
 
66
 
66
 
अपहतपाप्मा दिव्यो देव एको नारायणः ",
 
एको देवो नारायण: "
 
66
 
"
रुद्रास्तु बहवः
 
'
 
" सहस्राणि सहस्रशो ये रुद्राः ", " तमेव मृत्युम् ", " परं मृत्यो अनु
 
परेहि पन्थाम् । " इति ।
 
,