2026-02-12 03:50:08 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">३४
</ignore>
<ignore lang="sa">सामान्यवेदान्त-उपनिषदः
</ignore>
<p lang="sa">देवा असुरान् पराभावयन्त । तद्यत्पराभावयन्त तस्मादोङ्कारः पूर्वमुच्चार्यते ।
यो ह वा एतमोङ्कारं न वेदावश्यः स्यादित्यथ य एवं वेद ब्रह्मवशः स्यादिति
तस्मादोङ्कार ऋग्भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रं ब्राह्मणे ब्राह्मणं
लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणम् ॥
</p>
<p lang="sa">ओंकारं पृच्छामः को धातुः किं प्रातिपदिकं किं नामाख्यातं
किं लिङ्गं किं च वचनं का विभक्तिः कः प्रत्ययः कः स्वरः उपसर्गो
निपातः किं वै व्याकरणं को विकारः को विकारी कतिमात्रः
कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदान करणं
शिक्षकाः किमुच्चारयन्ति किं छन्द: को वर्ण इति पूर्वे प्रश्नाः । अथोत्तरे
मन्त्राः । कल्पो ब्राह्मणं ऋग् यजुः साम । कस्माद्ब्रह्मवादिन ओङ्कारमादितः
कुर्वन्ति । किं दैवतं किं ज्योतिषं किं निरुक्तं किं स्थानं का प्रकृतिः
किमध्यात्ममिति षट्त्रिंशत्प्रश्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादश एकाशतैरोङ्कारं
व्याख्यास्यामः ॥
</p>
<p lang="sa" merge-next="true">इन्द्रः प्रजापतिमपृच्छत् भगवन्नभ्यस्तूय पृच्छामीति । पृच्छ
वत्सेत्यब्रवीत् । किमयमोङ्कारः कस्य पुत्रः किं चैतच्छन्दः किं चैतद्वर्णः
किं चैतद्ब्रह्मा ब्रह्म संपद्यते । तस्माद्वैतमोङ्कारं पूर्वमालोभस्वरितोदात्त एकाक्षर
ओङ्कार ऋग्वेदेलैत्रैस्वर्योदात्त एकाक्षर ओङ्कारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर
ओङ्कारः सामवेदे ह्रस्वोदात्त एकाक्षर: उकारोऽथर्ववेदे ऽनुदात्तोदात्तद्विपद
अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमित्याहु: । या सा प्रथमा मात्रा
ब्रह्मदैवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् । या सा
द्वितीया मात्रा विष्णुदैवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स
गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदैवत्या कपिला वर्णेन
यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थी माला
त्रा</p>
</page>
<ignore lang="sa">३४
<ignore lang="sa">सामान्यवेदान्त-उपनिषदः
<p lang="sa">देवा असुरान् पराभावयन्त । तद्यत्पराभावयन्त तस्मादोङ्कारः पूर्वमुच्चार्यते ।
यो ह वा एतमोङ्कारं न वेदावश्यः स्यादित्यथ य एवं वेद ब्रह्मवशः स्यादिति
तस्मादोङ्कार ऋग्भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रं ब्राह्मणे ब्राह्मणं
लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणम् ॥
<p lang="sa">ओंकारं पृच्छामः को धातुः किं प्रातिपदिकं किं नामाख्यातं
किं लिङ्गं किं च वचनं का विभक्तिः कः प्रत्ययः कः स्वरः उपसर्गो
निपातः किं वै व्याकरणं को विकारः को विकारी कतिमात्रः
कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदान
शिक्षकाः किमुच्चारयन्ति किं छन्द: को वर्ण इति पूर्वे प्रश्नाः । अथोत्तरे
मन्त्राः । कल्पो ब्राह्मणं ऋग् यजुः साम । कस्माद्ब्रह्मवादिन ओङ्कारमादितः
कुर्वन्ति । किं दैवतं किं ज्योतिषं किं निरुक्तं किं स्थानं का प्रकृतिः
किमध्यात्ममिति षट्त्रिंशत्प्रश्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादश एकाशतैरोङ्कारं
व्याख्यास्यामः ॥
<p lang="sa" merge-next="true">इन्द्रः प्रजापतिमपृच्छत् भगवन्नभ्यस्तूय पृच्छामीति । पृच्छ
वत्सेत्यब्रवीत् । किमयमोङ्कारः कस्य पुत्रः किं चैतच्छन्दः किं चैतद्वर्णः
किं चैतद्ब्रह्मा ब्रह्म संपद्यते । तस्माद्वैतमोङ्कारं पूर्वमालोभस्वरितोदात्त एकाक्षर
ओङ्कार ऋग्वेदे
ओङ्कारः सामवेदे ह्रस्वोदात्त एकाक्षर: उकारोऽथर्ववेदे
अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमित्याहु: । या सा प्रथमा मात्रा
ब्रह्मदैवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् । या सा
द्वितीया मात्रा विष्णुदैवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स
गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदैवत्या कपिला वर्णेन
यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थी मा
</page>