This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
प्रणवोपनिषत्
 
</ignore>
<ignore lang="sa">
३३
 
</ignore>
<p lang="sa">
स्तोममुदीचीं दिशं वर्षतुंMतु ज्योतिरध्यात्मं चक्षुषी दर्शनमितीन्द्रियाण्यन्व-

भवत् । तस्य वकारमात्रया यश्चन्द्रमसमथर्ववेदं नक्षत्राण्योमिति स्वमात्मानं

जनदित्यंगिरसामानुष्टुभं छन्दः एकविंशं स्तोमं दक्षिणां दिशं शरदमृतुं

मनोऽध्यात्मं ज्ञानं ज्ञेयमितीन्द्रियाण्यन्वभवत् । तस्य मकारश्रुत्येति-

हासपुराणं वाकोवाक्यगाथानाराशंसीरुपनिषदोनुशासमानानामिति वृधत्कर-

द्रुहन्महत्तच्छमोमिति व्याहृतीः स्वरशम्यनानातन्त्रीस्वरनृत्यगीतवादित्राण्य-

न्वभवच्चैत्ररथं दैवतं वैद्युतं ज्योतिर्बार्हतं छन्दस्तृणवत्त्रयस्त्रिंशस्तोमोmau ध्रुवामूर्ध्वा
M
दिशं हेमन्तशिशिरावृतू श्रोत्रमध्यात्मं शब्दश्रवणमितीन्द्रियाण्यन्वभवत् ।

सैषैकाक्षर ऋgब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव । ब्रह्म वेदस्याथर्वणं शुक्रमत एव

मन्त्राः प्रादुर्बभूवुः । स तु खलु मन्त्राणां तपसा शुश्रूषानध्यायाध्ययनेन

यदूनं च वरिष्ठं च यातयामं च करोति । तथाप्यथर्वणं तेजसा

प्रत्याप्याययेन्मन्त्राश्च मामभिमुखीभवेयुर्गर्भा इव मातरमभिजिघांसुः परस्ता-

दोङ्कारप्रयुक्तयैतयैव तदृचा प्रत्याप्याययेदेष यज्ञस्य पुरस्ताद्युज्यत एषा

पश्चात् सर्वत एतया यज्ञस्तपते तदप्येतदृचोक्तं--" - &quot;या पुरस्ताdयुंजत

ऋचोऽक्षरे परमे व्योमन्निति "&quot; । तदेतदक्षरं ब्राह्मणो यं काममिच्छेत्

त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिप्युपविश्य सहस्रं ऋच आवर्तयेत्

सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥
 
</p>
<p lang="sa" merge-next="true">
वसोद्वराणामिन्द्रनगरं तदसुराः पर्यवारयन्त । ते देवा भीता

आसन । क इमानसुरान् हनिष्यतीति । तमोङ्कारं ब्रह्मणः पुत्रं ज्येष्ठं

ददृशुस्ते तमब्रुवन् । भवता मुख्येने मानसुरान् जयेमेति । स होवाच किं

मे प्रतीवाहो भविष्यतीति । वरं वृणीष्वेति । वृण इति । स वरमवृणीत ।
"

&quot;
न मामनीरयित्वा ब्राह्मणा ब्रह्म वदेयुर्यदि वदेयुरब्रह्म तत्स्यात् "&quot; इति ।

तथेति ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसंस्तानोङ्कारेणाभीग्नीधीया
 
6
 
</p>
</page>