2026-02-10 02:57:29 by ambuda-bot
This page has not been fully proofread.
हंसषोढोपनिषत्
४७५
मम जाड्यं छेदय छेदय । भ्रंश भ्रंश । भगवति मां रक्ष रक्ष । भुवन-
धारिणि मां धारय धारय । स्वाहापदद्वयं न्यस्य शिवो भवेत् ।
अथ वै षष्ठीं न्यसेत् । हंसः लं क्षं महालक्ष्मि राजराजेश्वरि महा-
कालप्रिये कालखण्डनि खण्डिनि खण्डय खण्डय खां खीं खूं खँ खों खौं
खः खनित्रि समे स्वाहेति सर्वाङ्गे न्यसेत् । हंसः पञ्चाशत् व्यापकं कुर्यात् ।
इति षष्ठी । स शिवो भवेत् । स सोमयाजी भवेत् । स विरक्तो भवेत् ।
स सर्वदीक्षितो भवेत् । सोऽमृतत्वं गच्छति । स सर्वकालत्वं गच्छति । स
सर्वन्यासकारी भवेत् । अनधीतगतिर्विद्यां लभेत् । कर्तव्याकरणादिकर्ता
भवेत् । सर्वसिद्धीश्वरो भवेत् । कालीरूपो भवेत् । सोऽहं हंस इत्याह
भगवान् सदाशिव इति प्रोतं वेद ।
इत्याथर्वणे सौभाग्यकाण्डे हंसषोढोपनिषत् समाप्ता