2026-02-10 02:57:29 by ambuda-bot
This page has not been fully proofread.
४७४
शाक्त-उपनिषदः
मनोभवाः पूज्याः । प्रान्ते पूजां सन्तर्प्य पुनर्नैवेद्यं बहुगुणं निवेद्यारात्रिकं
निवेद्य परां पूजयन् महाछत्रचामरादिसर्वदेवैर्नमस्कृतामाद्यशक्तिमष्ट-
जातीयां स्वयं भैरवो भूत्वा कुलाकुलामृतैर्देवीं सन्तर्प्य स्वहृदये तां परां
विसृज्य सुखेनैव शिवशक्त्यात्मको भावयन् विहरेत् । स सिद्धीश्वरो
भवेत् । स सर्वेश्वरो भवेत् । स लोकाध्यक्षो भवेत् । भवो भूत्वा विभावयति ॥
इत्याथर्वणे सौभाग्यकाण्डे सुमुख्युपनिषत् समाप्ता
हंसषोढोपनिषत
अथाह वै हंसषोढान्यासी शिवो भवेत् । सर्वसिद्धीश्वरो भवेत् ।
एतत्फलं वक्तुं सदाशिवोऽपि न समर्थः । षोढान्यासस्य विरूपाक्षमहाकाल
ऋषिः । अनुष्टुप् छन्दः । काली देवता । कालीदेहार्थे विनियोगः । हंसेनाङ्ग-
षट्कम् । स निर्वाणरूपो भवेत् । हंसः कं खं गं घं ङं महामुण्डमालाधारिणि
महाकालप्रिये मां रक्ष रक्ष । षट्चक्रवासिनि वागीश्वर जिह्वाग्रे वस । हं
नमः शिरसि प्रोतं वेद शिवो भवेत् । हंसः चं छं जं झं ञं महात्रि-
पुरभैरवि पुस्तकाक्षमालाधारिणि शत्रुमुखस्तम्भनं कुरु कुरु स्वाहेति महा-
पद्मे । हंसः टं ठं डं ढं णं डां डीं डं डाकिनि मां रक्ष रक्ष स्वाहेत्य-
नाहते न्यसेत् । तृतीयारूपो भवेत् । हंसः तं थं दं धं नं महामारि मार-
हारिणि हुं हुं दारिद्र्यं हर हर स्वाहा । गुं न्यसेत् । स ब्रह्मकालीत्वं गच्छति ।
चतुर्थत्वं गच्छति । हंसः पं फं बं भं मं मार्जारि वीरावलि ममालस्यं
नाशय नाशय । हंसः यं रं लं वं शं षं सं हं लम्बोदर मातर्महामङ्गल प्रिये