This page has been fully proofread once and needs a second look.

<page>
<ignore>
सुमुख्युपनिषत्
 
</ignore>
<ignore>
४७३
 
</ignore>
<p>
छिन्नाकल्पामुग्रायामङ्गषोढां न्यसेत् । तत्स्पर्शादष्टलोहस्पर्शो भवेत् ।

शक्तिकुण्डे जिह्वां नाडीं वा न्यस्य यो जपेत् स कालीरूपो भवेत् ।

इति शिवम् ॥
 
</p>
<trailer text="END">
इत्याथर्वणे सौभाग्यकाण्डे षोढोपनिषत् समाप्ता
 
</trailer>
<title text="START">
सुमुख्युपनिषत्
 
</title>
<p merge-next="true">
अथैनामावाहयाम्यनवद्यां शवाधिरूढां रक्तवस्त्रालङ्कारयुक्तां रक्त-

पीठोपविष्टां गुञ्जाहारविभूषितहृदयां षोडशसमासमाकारां युवतीं पीनोन्नत-

घनस्तनीं स्वहृदये चिन्तयित्वोच्छिष्टपदमाभाप्ष्य चण्डालिनीमभिमतां

सुमुखीं तदन्ते देवीं चोक्त्वा महापिशाचिनीं तस्माद्धराममिgniमायां बिन्दु-

मौलिनीं समुच्चार्य ठान्तत्रयं सविसर्गेगM समुद्धृत्य देवीं हृदये विभाव्य ईGकार-

स्वरूपं सबिन्दुमुखं युग्मस्तनपदान्तं भावयित्वा यन्त्रं योनिं तदुपरि

शिववक्त्रयोनिमष्टपत्रं षोडशाब्जकं वृत्तमेकं चतुरश्रं यन्त्रराजं विचिन्त्यादौ

देवीमावाह्य बिन्दौ गन्धाक्षतपुष्पधूपदीपान् संस्कृतान्नं नानाविधं निवेद्याद्यं

पलं मीनाद्यन्नं मूलेन मूलां सन्तर्प्य संस्कृतां पुरस्कृतां योनिं देवतायै निवेद-

येत् । सुकृती चतुरश्रान् देवानिन्द्राग्भिgniयमनिर्ऋतिवरुणवायुकुबेरेशानान्

वामावर्तेन संपूज्य षोडशाब्जके कलावती कपालिनी कल्याणी नित्या कमला

क्रिया कृपा आकुला कुलीना कुमारी कुण्डला आकरा किशोरी कोमला कल्पा

कुमुदा एताः पूजयेत् । अष्टाब्जे ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही

इन्द्राणी चामुण्डा महालक्ष्मीः । ततो योनिपञ्चके चन्द्रा चन्द्रानना चारुमुखी

चामीकरप्रभा चतुरा । ततो योनौ वामा ज्येष्ठा रौद्री । तदन्ते रतिप्रीति-
 
</p>
<ignore>
U 60
 
</ignore>
</page>