2026-02-10 02:57:29 by ambuda-bot
This page has not been fully proofread.
सुमुख्युपनिषत्
४७३
छिन्नाकल्पामुग्रायामङ्गषोढां न्यसेत् । तत्स्पर्शादष्टलोहस्पर्शो भवेत् ।
शक्तिकुण्डे जिह्वां नाडीं वा न्यस्य यो जपेत् स कालीरूपो भवेत् ।
इति शिवम् ॥
इत्याथर्वणे सौभाग्यकाण्डे षोढोपनिषत् समाप्ता
सुमुख्युपनिषत्
अथैनामावाहयाम्यनवद्यां शवाधिरूढां रक्तवस्त्रालङ्कारयुक्तां रक्त-
पीठोपविष्टां गुञ्जाहारविभूषितहृदयां षोडशसमासमाकारां युवतीं पीनोन्नत-
घनस्तनीं स्वहृदये चिन्तयित्वोच्छिष्टपदमाभाप्य चण्डालिनीमभिमतां
सुमुखीं तदन्ते देवीं चोक्त्वा महापिशाचिनीं तस्माद्धराममिमायां बिन्दु-
मौलिनीं समुच्चार्य ठान्तत्रयं सविसर्गे समुद्धृत्य देवीं हृदये विभाव्य ईकार-
स्वरूपं सबिन्दुमुखं युग्मस्तनपदान्तं भावयित्वा यन्त्रं योनिं तदुपरि
शिववक्त्रयोनिमष्टपत्रं षोडशाब्जकं वृत्तमेकं चतुरश्रं यन्त्रराजं विचिन्त्यादौ
देवीमावाह्य बिन्दौ गन्धाक्षतपुष्पधूपदीपान् संस्कृतान्नं नानाविधं निवेद्याद्यं
पलं मीनाद्यन्नं मूलेन मूलां सन्तर्प्य संस्कृतां पुरस्कृतां योनिं देवतायै निवेद-
येत् । सुकृती चतुरश्रान् देवानिन्द्राग्भियमनिर्ऋतिवरुणवायुकुबेरेशानान्
वामावर्तेन संपूज्य षोडशाब्जके कलावती कपालिनी कल्याणी नित्या कमला
क्रिया कृपा आकुला कुलीना कुमारी कुण्डला आकरा किशोरी कोमला कल्पा
कुमुदा एताः पूजयेत् । अष्टाब्जे ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही
इन्द्राणी चामुण्डा महालक्ष्मीः । ततो योनिपञ्चके चन्द्रा चन्द्रानना चारुमुखी
चामीकरप्रभा चतुरा । ततो योनौ वामा ज्येष्ठा रौद्री । तदन्ते रतिप्रीति-
U 60