This page has been fully proofread once and needs a second look.

<page>
<ignore>
४७२
 
</ignore>
<ignore>
शाक्त-उपनिषदः
 
</ignore>
<title>
षोडोढोपनिषत्
 
</title>
<ignore>
1
 
</ignore>
<p merge-next="true">
अथाह वै श्म शवः शानं शयनं शवानां शयनं श्मशानं तदधिष्ठानो

महाकालस्तत्पर्यङ्कसमासीनां विश्वव्यापकरूपिर्णीणीं कालीं कालादिसंत्रासात्

कालीं चतुर्युगाधिष्ठात्रीं स्वस्मिन् भाव्य षोढां न्यसेत् । स्थानशुद्धिन्यासं

विधाय षोढां न्यसेत् । अथ षोढान्यासी षट्कालित्वं गच्छति । सेयं षट्कला

परा परात्परा परात्परातीता चित्परा चित्परात्परा चित्परात्परातीता । षण्णां

योगे षोढा भवेत् । वैष्णवकलायुक्तां मातृकायुक्तां वैष्णवीं न्यसेदिति

प्रथमः । स परारूपो भवेत् । स भूमिं जयति । स शक्तिरूपो भवेत् ।

अथ वै कामकलापुटितां श्रीकलां श्रीकलापुटितां कामकलां लिपिस्थाने

न्यसेत् । द्वितीयारूपो भवेत् । सोऽमृतत्वं गच्छति । स जलं तरतीति

वै यज्ञे गीर्णेणं भवति । आदिकलापुटितां श्रीकलां श्रीकलापुटितामादिकलां

मातृस्थाने न्यसेत् । स सिद्धीश्वरो भवेत् । स वह्निनिं जयति । दिवारात्रि-

व्यापी भवेत् । कूर्चं चन्द्रं कूर्चेचं चन्द्रमन्तर्दृष्टिमद्दीपनमन्त्रं राज्ञीपुटितमेतेन

पुटितां राज्ञीं न्यसेत् । स खेचरो भवेत् । स वायुपुरगामी भवेत् ।

स कलावान् भवेत् । चतुर्थीरूपो भवेत् । अनुलोमविलोमेन मूलमन्त्रं

केवलं न्यसेत् । विद्यान्यासरूपो भवेत् । सर्वेवं जयति । स पञ्चमीरूपो

भवेत् । स चाकाशं जयति । अष्टोत्तरशतानुलोमविलोमाकृतिक्रमेण देवतां

व्यापयेत् । स ध्वनिरूपो भवेत् । सर्वेवं जयति । सर्वेवं जरति । महापात-

कोपपातकानि तरति । वयःस्थैर्यकरो भवेत् । अष्टसिद्धिदाता भवेत् ।

तद्दर्शनेन देवत्वं भवेत् । षष्ठीकलावान् भवेत् । विश्वरूपो भवेत् । यं

पश्यति तं शिवं कुरुते । नमस्कारान्मूर्तिस्फोटो भवेत् । स गारूपनाशको

भवेत् । स महेन्द्रजालदर्शको भवेत् । तद्दर्शनात् सिद्धीश्वरो भवेत् । पुटिति
 
</p>
<ignore>

 
</ignore>
</page>