This page has not been fully proofread.

४७२
 
शाक्त-उपनिषदः
 
षोडोपनिषत्
 
1
 
अथाह वै श्म शवः शानं शयनं शवानां शयनं श्मशानं तदधिष्ठानो
महाकालस्तत्पर्यङ्कसमासीनां विश्वव्यापकरूपिर्णी कालीं कालादिसंत्रासात्
कालीं चतुर्युगाधिष्ठात्रीं स्वस्मिन् भाव्य षोढां न्यसेत् । स्थानशुद्धिन्यासं
विधाय षोढां न्यसेत् । अथ षोढान्यासी षट्कालित्वं गच्छति । सेयं षट्कला
परा परात्परा परात्परातीता चित्परा चित्परात्परा चित्परात्परातीता । षण्णां
योगे षोढा भवेत् । वैष्णवकलायुक्तां मातृकायुक्तां वैष्णवीं न्यसेदिति
प्रथमः । स परारूपो भवेत् । स भूमिं जयति । स शक्तिरूपो भवेत् ।
अथ वै कामकलापुटितां श्रीकलां श्रीकलापुटितां कामकलां लिपिस्थाने
न्यसेत् । द्वितीयारूपो भवेत् । सोऽमृतत्वं गच्छति । स जलं तरतीति
वै यज्ञे गीर्णे भवति । आदिकलापुटितां श्रीकलां श्रीकलापुटितामादिकलां
मातृस्थाने न्यसेत् । स सिद्धीश्वरो भवेत् । स वह्नि जयति । दिवारात्रि-
व्यापी भवेत् । कूर्चं चन्द्रं कूर्चे चन्द्रमन्तर्दृष्टिमद्दीपनमन्त्रं राज्ञीपुटितमेतेन
पुटितां राज्ञीं न्यसेत् । स खेचरो भवेत् । स वायुपुरगामी भवेत् ।
स कलावान् भवेत् । चतुर्थीरूपो भवेत् । अनुलोमविलोमेन मूलमन्त्रं
केवलं न्यसेत् । विद्यान्यासरूपो भवेत् । सर्वे जयति । स पञ्चमीरूपो
भवेत् । स चाकाशं जयति । अष्टोत्तरशतानुलोमविलोमाकृतिक्रमेण देवतां
व्यापयेत् । स ध्वनिरूपो भवेत् । सर्वे जयति । सर्वे जरति । महापात-
कोपपातकानि तरति । वयःस्थैर्यकरो भवेत् । अष्टसिद्धिदाता भवेत् ।
तद्दर्शनेन देवत्वं भवेत् । षष्ठीकलावान् भवेत् । विश्वरूपो भवेत् । यं
पश्यति तं शिवं कुरुते । नमस्कारान्मूर्तिस्फोटो भवेत् । स गारूपनाशको
भवेत् । स महेन्द्रजालदर्शको भवेत् । तद्दर्शनात् सिद्धीश्वरो भवेत् । पुटिति