2026-02-16 22:44:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p>श्रीविद्यातारकोपनिषत्
</p>
<metadata>div.n = 3</metadata>
<heading>तृतीयः पादः
</heading>
<ignore>४७१
</ignore>
<p>यत्र सुप्तो न कञ्चन कामं कामयते तत्सुषुप्तम् । पश्यन्ति यत् सुषु -
प्तिस्थान एकीभूतप्रज्ञानघन एवानन्देऽभूत् । इच्छाशक्तिरूपां स्वप्नावस्थान-
सुषुप्तिदशाधिष्ठायिनीं सानन्दकलां तृतीयकूटां मन्यन्ते ।
</p>
<trailer>इति तृतीयः पादः
</trailer>
<metadata>div.n = 4</metadata>
<heading>चथुर्थ: पाद:
</heading>
<p>एषा सर्वेश्वर्येषा सर्वोत्तमेमैषान्तर्याम्येषा योनिः सर्वेषां प्रभवाप्ययौ हि
भूतानाम् । नोभयतः प्रज्ञां प्रज्ञानघनां न प्रज्ञां नाप्रज्ञामदृष्टामव्यवहार्याम-
ग्राह्यामलक्षणामचिन्त्यामव्यपदेश्यामेकात्मप्रत्यय सारां प्रपञ्चोपशमनीं शान्तां
शिवामद्वैतां षोडशाक्षरीरीं स्फुरत्तादृशाधिष्ठायिनीं चतुर्थखण्डात्मिकां मन्यन्ते ।
सात्मा विज्ञेया । सदोज्ज्वलाविद्या । तत्कार्यहीना स्वात्मबन्धहरा सर्वदा-
द्वैतानन्दरूपा सर्वाधिष्ठानसन्मात्रा निरस्ताविद्यातमोमोहाहमेवेति संभाव्या-
हममों तत्सद्यत् परंब्रह्म चतुष्कूटा परंज्योतिस्साहमोमित्यात्मानमादाय मनसा
चतुष्कूटामेककार्योयं तदा चतुष्कूटाहमिति तत्पराः प्रवदन्ति । येन ते
संसारिण आत्मना विरागा एव । न संसारिणः । य एवं वेद स मुक्तो
भवति स मुक्तो भवति इत्यगस्त्यः । इत्युपनिषत् ।
</p>
<trailer>इति चतुर्थ: पाद:
</trailer>
<trailer>इति श्रीविद्यातारकोपनिषत् समाप्ता
</trailer>
</page>
<p>श्रीविद्यातारकोपनिषत्
<metadata>div.n = 3</metadata>
<heading>तृतीयः पादः
<ignore>४७१
<p>यत्र सुप्तो न कञ्चन कामं कामयते तत्सुषुप्तम् । पश्यन्ति यत् सुषु
प्तिस्थान एकीभूतप्रज्ञानघन एवानन्देऽभूत् । इच्छाशक्तिरूपां स्वप्नावस्थान-
सुषुप्तिदशाधिष्ठायिनीं सानन्दकलां तृतीयकूटां मन्यन्ते ।
<trailer>इति तृतीयः पादः
<metadata>div.n = 4</metadata>
<heading>चथुर्थ: पाद:
<p>एषा सर्वेश्वर्येषा सर्वोत्त
भूतानाम् । नोभयतः
ग्राह्यामलक्षणामचिन्त्यामव्यपदेश्यामेकात्मप्रत्यय
शिवामद्वैतां षोडशाक्ष
सात्मा विज्ञेया । सदोज्ज्वलाविद्या । तत्कार्यहीना स्वात्मबन्धहरा सर्वदा-
द्वैतानन्दरूपा सर्वाधिष्ठानसन्मात्रा निरस्ताविद्यातमोमोहाहमेवेति संभाव्या-
ह
चतुष्कूटामेककार्
संसारिण आत्मना विरागा एव । न संसारिणः । य एवं वेद स मुक्तो
भवति स मुक्तो भवति इत्यगस्त्यः । इत्युपनिषत् ।
<trailer>इति चतुर्थ: पाद:
<trailer>इति श्रीविद्यातारकोपनिषत् समाप्ता
</page>