This page has not been fully proofread.

श्रीविद्यातारकोपनिषत्
तृतीयः पादः
 
४७१
 
यत्र सुप्तो न कञ्चन कामं कामयते तत्सुषुप्तम् । पश्यन्ति यत् सुषु -
प्तिस्थान एकीभूतप्रज्ञानघन एवानन्देऽभूत् । इच्छाशक्तिरूपां स्वप्नावस्थान-
सुषुप्तिदशाधिष्ठायिनीं सानन्दकलां तृतीयकूटां मन्यन्ते ।
 
इति तृतीयः पादः
 
थुर्थ: पाद:
 
एषा सर्वेश्वर्येषा सर्वोत्तमेषान्तर्याम्येषा योनिः सर्वेषां प्रभवाप्ययौ हि
भूतानाम् । नोभयतः प्रज्ञां प्रज्ञानघनां न प्रज्ञां नाप्रज्ञामदृष्टामव्यवहार्याम-
ग्राह्यामलक्षणामचिन्त्यामव्यपदेश्यामेकात्मप्रत्यय सारां प्रपञ्चोपशमनीं शान्तां
शिवामद्वैतां षोडशाक्षरी स्फुरत्तादृशाधिष्ठायिनीं चतुर्थखण्डात्मिकां मन्यन्ते ।
सात्मा विज्ञेया । सदोज्ज्वलाविद्या । तत्कार्यहीना स्वात्मबन्धहरा सर्वदा-
द्वैतानन्दरूपा सर्वाधिष्ठानसन्मात्रा निरस्ताविद्यातमोमोहाहमेवेति संभाव्या-
हम तत्सद्यत् परंब्रह्म चतुष्कूटा परंज्योतिस्साहमोमित्यात्मानमादाय मनसा
चतुष्कूटामेककार्यो तदा चतुष्कूटाहमिति तत्पराः प्रवदन्ति । येन ते
संसारिण आत्मना विरागा एव । न संसारिणः । य एवं वेद स मुक्तो
भवति स मुक्तो भवति इत्यगस्त्यः । इत्युपनिषत् ।
 
इति चतुर्थ: पाद:
 
इति श्रीविद्यातारकोपनिषत् समाप्ता