This page has been fully proofread once and needs a second look.

<page>
<ignore>
४७०
 
</ignore>
<ignore>
शाक्त-उपनिषदः
 
</ignore>
<verse>
अकाराक्षरसंभूता वाग्भवा विश्वभाविता ।

उकाराक्षरसंभूता तेजसः कामराजका ॥
</verse>
<verse>
प्राज्ञो मकारसंभूता तार्तीया च तृतीयका ।

अर्धमात्रा षोडशी च ब्रह्मानन्दैकविग्रहा ॥
</verse>
<verse>
तस्याः सान्निध्यवशतो जगदानन्ददायिनी ।

उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥
</verse>
<verse>
त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता ।

प्रकृतिः प्रणवत्वाच्च सा त्रिकूटत्रयात्मिका ॥
 
</verse>
<p>
एवं यच्चान्यत् त्रिकालातीतम् । चतुष्कूटात्मिकैव सर्वकूटात्मिका

ब्रह्ममयी । तुर्यात्मब्रह्मा सोऽयमात्मा चतुष्पाज्जगतः स्थानं न बहिः प्रज्ञं

नोभयतः प्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः । स्थूलभुग्वैश्वानरात्मिकां काम-

पीठालयां मित्रेशनाथात्मिकां जाग्रद्दशाधिष्ठायिनीमिच्छाशक्त्यात्मिकां कामे-

श्वरीं प्रथमकूटां मन्यन्ते ।
 
</p>
<trailer>
इति प्रथमः पादः
 
</trailer>
<metadata>div.n = 2</metadata>
<heading>
द्वितीयः पादः
 
</heading>
<p>
स्वप्नस्थानेऽनन्तः संज्ञासप्ताङ्ग एकोनविंशतिमुखः प्रविभक्तोऽभूत् ।

तैजसात्मिकां जालन्धरपीठालयां षष्ठीशनाथात्मिकां वज्रेश्वरीरीं विष्ण्वात्मिकां

क्रियारूपां स्वप्नावस्थान स्थितिरूपामिच्छाशक्तिस्वरूपिणीं द्वितीयकूटां मन्यन्ते ।
 
</p>
<trailer>
इति द्वितीयः पादः
 
</trailer>
</page>