This page has not been fully proofread.

४७०
 
शाक्त-उपनिषदः
 
अकाराक्षरसंभूता वाग्भवा विश्वभाविता ।
उकाराक्षरसंभूता तेजसः कामराजका ॥
प्राज्ञो मकारसंभूता तार्तीया च तृतीयका ।
अर्धमात्रा षोडशी च ब्रह्मानन्दैकविग्रहा ॥
तस्याः सान्निध्यवशतो जगदानन्ददायिनी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥
त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता ।
प्रकृतिः प्रणवत्वाच्च सा त्रिकूटत्रयात्मिका ॥
 
एवं यच्चान्यत् त्रिकालातीतम् । चतुष्कूटात्मिकैव सर्वकूटात्मिका
ब्रह्ममयी । तुर्यात्मब्रह्मा सोऽयमात्मा चतुष्पाज्जगतः स्थानं न बहिः प्रज्ञं
नोभयतः प्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः । स्थूलभुग्वैश्वानरात्मिकां काम-
पीठालयां मित्रेशनाथात्मिकां जाग्रदशाधिष्ठायिनीमिच्छाशक्त्यात्मिकां कामे-
श्वरीं प्रथमकूटां मन्यन्ते ।
 
इति प्रथमः पादः
 
द्वितीयः पादः
 
स्वप्नस्थानेऽनन्तः संज्ञासप्ताङ्ग एकोनविंशतिमुखः प्रविभक्तोऽभूत् ।
तैजसात्मिकां जालन्धरपीठालयां षष्ठीशनाथात्मिकां वज्रेश्वरी विष्ण्वात्मिकां
क्रियारूपां स्वप्नावस्थान स्थितिरूपामिच्छाशक्तिस्वरूपिणीं द्वितीयकूटां मन्यन्ते ।
 
इति द्वितीयः पादः