2026-02-15 08:49:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">श्रीविद्यातारकोपनिषत्
</ignore>
<ignore lang="sa">४६९
</ignore>
<p lang="sa">भवेत् । स भुवनाराधितो भवेत् । निर्विकल्पेन मनसा यश्वचरेच्छक्तिदेहे स
कालीरूपो भवेत् । विना शक्तिं न मोक्षो न ज्ञानं न सत्यं न
धर्मो न तपो न हरिर्न हरो न विरिञ्चिः । सर्वेवं शक्तियुक्तं भवेत् । तत्संयो-
गात् सिद्धीश्वरो भवेत् । इति शिवम् ॥
</p>
<trailer text="END" lang="sa">इत्याथर्वणे सौभाग्यकाण्डे श्रीचक्रोपनिषत् समाप्ता
</trailer>
<title text="START" lang="sa">श्रीविद्यातारकोपनिषत्
</title>
<p lang="sa">शं नो मित्रः शं वरुणः इति शान्तिः
</p>
<metadata>div.n = 1</metadata>
<heading lang="sa">प्रथमः पादः
</heading>
<p lang="sa">अथैनमगस्त्यः पप्रच्छ हयग्रीवं किं तारकं किं तरति । स होवाच
हयग्रीवः । तारदीर्घानुलम्बिपूर्वकं प्रथमं खण्डं ततो द्वितीयं खण्डं ततस्तृतीयं
खण्डं ततश्चतुर्थथं खण्डं ब्रह्मात्मसच्चिदानन्दात्मकमन्त्रमित्युपासितव्यम् । अकारः
प्रथमकूटाक्षरो भवति । उकारो द्वितीयकूटाक्षरो भवति । मकारस्तृतीय-
कूटाक्षरो भवति । अर्धमातृका चतुर्थकूटाक्षरो भवति । बिन्दुः पञ्चम-
कूटाक्षरो भवति । नादः षष्ठकूटाक्षरो भवति । तारकत्वात्तारको भवति ।
तदेव मन्त्रतारकं भवति । तदेव मन्त्रतारकब्रह्म त्वं विद्धि । तदेवोपासित-
व्यम् । गर्भजन्ममरणसंसारमहद्भयात्तं तारयति । तारकमित्येतत्तारकं ब्राह्मणो
नित्यं महीयते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति ।
स भ्रूणहत्यां तरति । स वीरहत्यां तरति । स सर्वेवं तरति । स संसारं तरति ।
सोऽविमुक्तमाश्रितो भवति ।
</p>
</page>
<ignore lang="sa">श्रीविद्यातारकोपनिषत्
<ignore lang="sa">४६९
<p lang="sa">भवेत् । स भुवनाराधितो भवेत् । निर्विकल्पेन मनसा यश्
कालीरूपो भवेत् । विना शक्तिं न मोक्षो न ज्ञानं न सत्यं न
धर्मो न तपो न हरिर्न हरो न विरिञ्चिः । सर्
गात् सिद्धीश्वरो भवेत् । इति शिवम् ॥
<trailer text="END" lang="sa">इत्याथर्वणे सौभाग्यकाण्डे श्रीचक्रोपनिषत् समाप्ता
<title text="START" lang="sa">श्रीविद्यातारकोपनिषत्
<p lang="sa">शं नो मित्रः शं वरुणः इति शान्तिः
<metadata>div.n = 1</metadata>
<heading lang="sa">प्रथमः पादः
<p lang="sa">अथैनमगस्त्यः पप्रच्छ हयग्रीवं किं तारकं किं तरति । स होवाच
हयग्रीवः । तारदीर्घानुलम्बिपूर्वकं प्रथमं खण्डं ततो द्वितीयं खण्डं ततस्तृतीयं
खण्डं ततश्चतुर्
प्रथमकूटाक्षरो भवति । उकारो द्वितीयकूटाक्षरो भवति । मकारस्तृतीय-
कूटाक्षरो भवति । अर्धमातृका चतुर्थकूटाक्षरो भवति । बिन्दुः पञ्चम-
कूटाक्षरो भवति । नादः षष्ठकूटाक्षरो भवति । तारकत्वात्तारको भवति ।
तदेव मन्त्रतारकं भवति । तदेव मन्त्रतारकब्रह्म त्वं विद्धि । तदेवोपासित-
व्यम् । गर्भजन्ममरणसंसारमहद्भयात्तं तारयति । तारकमित्येतत्तारकं ब्राह्मणो
नित्यं महीयते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति ।
स भ्रूणहत्यां तरति । स वीरहत्यां तरति । स सर्
सोऽविमुक्तमाश्रितो भवति ।
</page>