2026-02-10 02:57:28 by ambuda-bot
This page has not been fully proofread.
श्रीविद्यातारकोपनिषत्
४६९
भवेत् । स भुवनाराधितो भवेत् । निर्विकल्पेन मनसा यश्वरेच्छक्तिदेहे स
कालीरूपो भवेत् । विना शक्तिं न मोक्षो न ज्ञानं न सत्यं न
धर्मो न तपो न हरिर्न हरो न विरिञ्चिः । सर्वे शक्तियुक्तं भवेत् । तत्संयो-
गात् सिद्धीश्वरो भवेत् । इति शिवम् ॥
इत्याथर्वणे सौभाग्यकाण्डे श्रीचक्रोपनिषत् समाप्ता
श्रीविद्यातारकोपनिषत्
शं नो मित्रः शं वरुणः इति शान्तिः
प्रथमः पादः
अथैनमगस्त्यः पप्रच्छ हयग्रीवं किं तारकं किं तरति । स होवाच
हयग्रीवः । तारदीर्घानुलम्बिपूर्वकं प्रथमं खण्डं ततो द्वितीयं खण्डं ततस्तृतीयं
खण्डं ततश्चतुर्थ खण्डं ब्रह्मात्मसच्चिदानन्दात्मकमन्त्रमित्युपासितव्यम् । अकारः
प्रथमकूटाक्षरो भवति । उकारो द्वितीयकूटाक्षरो भवति । मकारस्तृतीय-
कूटाक्षरो भवति । अर्धमातृका चतुर्थकूटाक्षरो भवति । बिन्दुः पञ्चम-
कूटाक्षरो भवति । नादः षष्ठकूटाक्षरो भवति । तारकत्वात्तारको भवति ।
तदेव मन्त्रतारकं भवति । तदेव मन्त्रतारकब्रह्म त्वं विद्धि । तदेवोपासित-
व्यम् । गर्भजन्ममरणसंसारमहद्भयात्तं तारयति । तारकमित्येतत्तारकं ब्राह्मणो
नित्यं महीयते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति ।
स भ्रूणहत्यां तरति । स वीरहत्यां तरति । स सर्वे तरति । स संसारं तरति ।
सोऽविमुक्तमाश्रितो भवति ।