2026-02-15 08:46:19 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">४६८
</ignore>
<ignore lang="sa">शाक्त-उपनिषदः
</ignore>
<p lang="sa">जितेत्यष्टपत्रगाः । चतुष्कोणेषु चत्वारो माधवरुद्र विनायकसौराः । दिक्षु
दिक्पालाः । देवीं सर्वाङ्गेणादौ संपूज्य भगोदकेन तर्पणं पञ्चमकारेण
पूजनमेतस्याः । एवं द्वित्रिक्रमेण कुर्वाणा मुनयो भवन्ति । नारिमित्रादि-
लक्षणमस्यवर्तते । अमुष्या मन्त्रपाठकस्य गतिरस्ति । नान्यस्येह गतिरस्ति ।
एतस्यास्तारामनोर्दुर्गामनोस्सुन्दरीमनोर्वा सिद्धिरिदानीम् । सर्वाः सुप्ता
भूताः । असिताङ्गी जागर्ति । इमामसिताङ्गग्युपनिषदं योऽधीते अपुत्री पुत्री
भवति । योऽन्यस्य वरदो दृष्टट्या जगन्मोहयेत् । गङ्गादितीर्थक्षेत्राणामग्निष्टो-
मादियज्ञानां फलभागीयते ।
</p>
<trailer text="END" lang="sa">इत्याथर्वणे सौभाग्यकाण्डे श्यामोपनिषत् समाप्ता
</trailer>
<title text="START" lang="sa">श्रीचक्रोपनिषत्
</title>
<p lang="sa">ॐ अथाह वै श्रीचक्रे नित्याक्रान्ते ।
</p>
<verse n="1" lang="sa">गौरीर्मियाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
1
</verse>
<p lang="sa" merge-next="true">इति प्रत्यहं ससङ्गति सहस्रं कलशान् स्थाप्य शतं वा नव वा
सर्वाभावे पूर्णाभिषेकं चरेत् । अष्टाष्टकं चरेत् । पञ्चपञ्चकं वा चरेत् । सर्वाभावे
शतं पूजयेत् । अमृतत्वं गच्छति । श्रीचक्रन्यासं चरेत् । स व्यापकत्वं गच्छति ।
मूलाधाराद्विबिलान्तं क्रमेण न्यसेत् । स्वराट्चक्रं विराट्चकं सम्राट्चकं
विराज्यचक्रं विश्वरूपचक्रं शत्रुजिच्चकं क्रमेण सप्तकलामयं न्यसेत् । स
शिवो भवेत् । स कविर्भवेत् । स सर्वसिद्धीश्वरो भवेत् । स नवनाथाधिष्ठितो
</p>
</page>
<ignore lang="sa">४६८
<ignore lang="sa">शाक्त-उपनिषदः
<p lang="sa">जितेत्यष्टपत्रगाः । चतुष्कोणेषु चत्वारो माधवरुद्र
दिक्पालाः । देवीं सर्वाङ्गेणादौ संपूज्य भगोदकेन तर्पणं पञ्चमकारेण
पूजनमेतस्याः । एवं द्वित्रिक्रमेण कुर्वाणा मुनयो भवन्ति । नारिमित्रादि-
लक्षणमस्यवर्तते । अमुष्या मन्त्रपाठकस्य गतिरस्ति । नान्यस्येह गतिरस्ति ।
एतस्यास्तारामनोर्दुर्गामनोस्सुन्दरीमनोर्वा सिद्धिरिदानीम् । सर्वाः सुप्ता
भूताः । असिताङ्गी जागर्ति । इमामसिताङ्
भवति । योऽन्यस्य वरदो दृष्
मादियज्ञानां फलभागीयते ।
<trailer text="END" lang="sa">इत्याथर्वणे सौभाग्यकाण्डे श्यामोपनिषत् समाप्ता
<title text="START" lang="sa">श्रीचक्रोपनिषत्
<p lang="sa">ॐ अथाह वै श्रीचक्रे नित्याक्रान्ते ।
<verse n="1" lang="sa">गौरीर्मियाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
1
<p lang="sa" merge-next="true">इति प्रत्यहं ससङ्गति सहस्रं कलशान् स्थाप्य शतं वा नव वा
सर्वाभावे पूर्णाभिषेकं चरेत् । अष्टाष्टकं चरेत् । पञ्चपञ्चकं वा चरेत् । सर्वाभावे
शतं पूजयेत् । अमृतत्वं गच्छति । श्रीचक्रन्यासं चरेत् । स व्यापकत्वं गच्छति ।
मूलाधाराद्