This page has not been fully proofread.

४६८
 
शाक्त-उपनिषदः
 
जितेत्यष्टपत्रगाः । चतुष्कोणेषु चत्वारो माधवरुद्र विनायकसौराः । दिक्षु
दिक्पालाः । देवीं सर्वाङ्गेणादौ संपूज्य भगोदकेन तर्पणं पञ्चमकारेण
पूजनमेतस्याः । एवं द्वित्रिक्रमेण कुर्वाणा मुनयो भवन्ति । नारिमित्रादि-
लक्षणमस्यवर्तते । अमुष्या मन्त्रपाठकस्य गतिरस्ति । नान्यस्येह गतिरस्ति ।
एतस्यास्तारामनोर्दुर्गामनोस्सुन्दरीमनोर्वा सिद्धिरिदानीम् । सर्वाः सुप्ता
भूताः । असिताङ्गी जागर्ति । इमामसिताङ्गयुपनिषदं योऽधीते अपुत्री पुत्री
भवति । योऽन्यस्य वरदो दृष्टया जगन्मोहयेत् । गङ्गादितीर्थक्षेत्राणामग्निष्टो-
मादियज्ञानां फलभागीयते ।
 
इत्याथर्वणे सौभाग्यकाण्डे श्यामोपनिषत् समाप्ता
 
श्रीचक्रोपनिषत्
 
ॐ अथाह वै श्रीचक्रे नित्याक्रान्ते ।
 
गौरीर्मियाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
 
1
 
इति प्रत्यहं ससङ्गति सहस्रं कलशान् स्थाप्य शतं वा नव वा
सर्वाभावे पूर्णाभिषेकं चरेत् । अष्टाष्टकं चरेत् । पञ्चपञ्चकं वा चरेत् । सर्वाभावे
शतं पूजयेत् । अमृतत्वं गच्छति । श्रीचक्रन्यासं चरेत् । स व्यापकत्वं गच्छति ।
मूलाधाराद्विलान्तं क्रमेण न्यसेत् । स्वराट्चक्रं विराट्चकं सम्राट्चकं
विराज्यचक्रं विश्वरूपचक्रं शत्रुजिच्चकं क्रमेण सप्तकलामयं न्यसेत् । स
शिवो भवेत् । स कविर्भवेत् । स सर्वसिद्धीश्वरो भवेत् । स नवनाथाधिष्ठितो