2026-02-16 23:24:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४२६
</ignore>
<ignore>शाक्त-उपनिषदः
</ignore>
<p>गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे
श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधि-
करणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् ॥
</p>
<trailer text="END">इति राजश्यामलारहस्योपनिषत् समाप्ता
</trailer>
<title text="START">वनदुर्गोपनिषत्
</title>
<p>ॐ अस्य श्रीवनदुर्गामहामन्त्रस्य किरातरूपधर ईश्वर ऋषिः ।
अनुष्टुप् छन्दः । अन्तर्यामी नारायण ईश्वरो वनदुर्गा गायत्री देवता ।
दुं बीजम् । स्वाहा शक्तिः । क्लीं कीलकम् । मम वनदुर्गाप्रसाद सिद्धध्यर्थे
धर्मार्थकाममोक्षार्थे जपे विनियोगः । मूलेन व्यापकत्रयं कुर्यात् । ह्रीं इति
व्यापकत्रयम् । ॐ हंसिनी हां अङ्गुष्ठाभ्यां हृदि । ॐ शिखिनीहीं
ह्रीं
तर्जनीभ्यां शिरसि । ॐ चक्रिणीहूंह्रूं मध्यमाभ्यां शिखायाम् । ॐ त्रिशूल-
धारिणीहैंह्रैं अनामिकाभ्यां कवचम् । ॐ पद्मिनी हौंह्रौं कनिष्ठिकाभ्यां
नेत्रयोः । ॐ गदिनीहःह्रः करतलकरपृष्ठाभ्यामस्त्रम् । ॐ भूर्भुवः स्वरोमिति
दिग्बन्धः । अथ ध्यानम्---
</p>
<verse>अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनीर्दधानाम् ।
भज तां महिषोत्तमाङ्गसंस्थां नवदुदूर्र्वासदृशी श्रियेऽस्तु दुर्गा ॥ १ ॥
</verse>
<verse>हेमप्रख्यामिन्दुखण्डान्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गागां दिव्यरूपां नमामि ॥२॥
</verse>
</page>
<ignore>४२६
<ignore>शाक्त-उपनिषदः
<p>गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे
श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधि-
करणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् ॥
<trailer text="END">इति राजश्यामलारहस्योपनिषत् समाप्ता
<title text="START">वनदुर्गोपनिषत्
<p>ॐ अस्य श्रीवनदुर्गामहामन्त्रस्य किरातरूपधर ईश्वर ऋषिः ।
अनुष्टुप् छन्दः । अन्तर्यामी नारायण ईश्वरो वनदुर्गा गायत्री देवता ।
दुं बीजम् । स्वाहा शक्तिः । क्लीं कीलकम् । मम वनदुर्गाप्रसाद
धर्मार्थकाममोक्षार्थे जपे विनियोगः । मूलेन व्यापकत्रयं कुर्यात् । ह्रीं इति
व्यापकत्रयम् । ॐ हंसिनी हां अङ्गुष्ठाभ्यां हृदि । ॐ शिखिनी
तर्जनीभ्यां शिरसि । ॐ चक्रिणी
धारिणी
नेत्रयोः । ॐ गदिनी
दिग्बन्धः । अथ ध्यानम्---
<verse>अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनीर्दधानाम् ।
भज तां महिषोत्तमाङ्गसंस्थां नव
<verse>हेमप्रख्यामिन्दुखण्डान्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्
</page>