2026-02-10 02:57:20 by ambuda-bot
This page has not been fully proofread.
४२६
शाक्त-उपनिषदः
गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे
श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधि-
करणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् ॥
इति राजश्यामलारहस्योपनिषत् समाप्ता
वनदुर्गोपनिषत्
ॐ अस्य श्रीवनदुर्गामहामन्त्रस्य किरातरूपधर ईश्वर ऋषिः ।
अनुष्टुप् छन्दः । अन्तर्यामी नारायण ईश्वरो वनदुर्गा गायत्री देवता ।
दुं बीजम् । स्वाहा शक्तिः । क्लीं कीलकम् । मम वनदुर्गाप्रसाद सिद्धयर्थे
धर्मार्थकाममोक्षार्थे जपे विनियोगः । मूलेन व्यापकत्रयं कुर्यात् । ह्रीं इति
व्यापकत्रयम् । ॐ हंसिनी हां अङ्गुष्ठाभ्यां हृदि । ॐ शिखिनी हीं
तर्जनीभ्यां शिरसि । ॐ चक्रिणी हूं मध्यमाभ्यां शिखायाम् । ॐ त्रिशूल-
धारिणी हैं अनामिकाभ्यां कवचम् । ॐ पद्मिनी हौं कनिष्ठिकाभ्यां
नेत्रयोः । ॐ गदिनी हः करतलकरपृष्ठाभ्यामस्त्रम् । ॐ भूर्भुवः स्वरोमिति
दिग्बन्धः । अथ ध्यानम्---
अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनीर्दधानाम् ।
भज तां महिषोत्तमाङ्गसंस्थां नवदुर्वासदृशी श्रियेऽस्तु दुर्गा ॥ १ ॥
हेमप्रख्यामिन्दुखण्डान्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् ।
हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गा दिव्यरूपां नमामि ॥२॥