This page has been fully proofread once and needs a second look.

<page>
<ignore>राजश्यामलारहस्योपनिषत्</ignore>
<ignore>४२५</ignore>
<p>यामुत्तानशायिनीं कृत्वा दर्पणवन्निर्मलं जगन्मोहनचक्रं गन्धद्रव्येण धूपदीपैश्च
परिमलीकृतं कुङ्कुममिलितैर्मल्लिकाकुड्मलैः शरसङ्ख्यया पूजयन् ब्राह्मणो
देवभोगमाप्नोति । वसन्तनवरात्रिषु भार्याजगन्मोहनचक्रे मल्लिकाकुड्मलैः
सहस्रनामभिः रहस्यनामभिश्च पूजिता राजश्यामला राजवशङ्करी भवति ।
शुक्रवासरयुक्तायां सप्तम्यां रात्रौ भार्याया जगन्मोहनचक्रे प्रथमयामे कल्हार-
पुष्पैः सहस्रनामभिर्देवतां पूजयन् देवतासालोक्यमाप्नोति । तस्यामेव
द्वितीययामे भार्याजगन्मोहनचक्रे पारिजातपुष्पैः सहस्रनामभिः पूजयन्
देवतासामीप्यमाप्नोति । तस्यामेव तृतीययामे भार्याजगन्मोहनचक्रे
मन्दारपुष्पैः सहस्रनामभिः पूजयन् देवतासारूप्यमाप्नोति । तस्यामेव
चतुर्थयामे जगन्मोहनचक्रे चम्पकपुष्पैः सहस्रनामभिः पूजयन् देवता-
सायुज्यमाप्नोति । सर्वरात्रिषु जगन्मोहनचक्रे मल्लिकाकुड्मलैः पूजिता श्यामला
कामितार्थप्रदा भवति । ग्रीष्मकाले सर्वरात्रिषु श्रीचन्दनविलिप्तभार्याजगन्मो-
हनचक्रं पूजयन् सर्वसिद्धिमाप्नोति । दूर्वाभिः पूजयन् महदायुष्यमश्नुते ।
अष्टम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहको चक्रे राजश्यामलाम्बां
श्रीचन्दनेन पूजयन् मानवो गन्धलिप्तातो जगन्मोहको भवति । महानवम्यां
शुक्रवासरयुक्तायां रात्रौ जगन्मोहनचक्रे कुङ्कुमाक्षतैर्देवतां पूजयित्वा पूजि-
ताक्षतान् राज्ञे निवेदयेत् । राजा दासभावमाप्नोति । त्रयोदश्यां शुक्रवास-
रयुक्तायां रात्रौ भार्याजगन्मोहनचक्रं पूजयन् मानवः कामसुन्दरो भवति ।
चन्द्रदर्शनयुक्तायां द्वितीयायां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे राजश्या-
मलाम्बां श्वेतगन्धाक्षतैः श्वेतपुष्पैश्च पूजयन् साधको देहान्ते राजा भवति ।
सर्वभोगप्रदा सर्वसौभाग्यप्रदा दीर्घायुष्यप्रदा महायोगप्रदा महामङ्गलप्रदा
काम्यप्रदा श्रीराजश्यामला देवेन्द्रभोगप्रदा भवति । सर्वकाम्यरहस्यपूजान्ते
मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगापवर्गः ।</p>
<ignore>U 54</ignore>
</page>