This page has been fully proofread once and needs a second look.

<page>
<ignore>
राजश्यामलारहस्योपनिषत्
 
</ignore>
<ignore>
४२५
 
</ignore>
<p>
यामुत्तानशायिनीं कृत्वा दर्पणवन्निर्मलं जगन्मोहनचक्रं गन्धद्रव्येण धूपदीपैश्च

परिमलीकृतं कुङ्कुममिलितैर्मल्लिकाकुड्मलैः शरसङ्ख्यया पूजयन् ब्राह्मणो

देवभोगमाप्नोति । वसन्तनवरात्रिषु भार्याजगन्मोहनचक्रे मल्लिकाकुड्मलैः

सहस्रनामभिः रहस्यनामभिश्च पूजिता राजश्यामला राजवशङ्करी भवति ।

शुक्रवासरयुक्तायां सप्तम्यां रात्रौ भार्याया जगन्मोहनचक्रे प्रथमयामे कल्हार-

पुष्पैः सहस्रनामभिर्देवतां पूजयन् देवतासालोक्यमाप्नोति । तस्यामेव

द्वितीययामे भार्याजगन्मोहनचक्रे पारिजातपुष्पैः सहस्रनामभिः पूजयन्

देवतासामीप्यमाप्नोति । तम्स्यामेव तृतीययामे भार्या जगन्मोहनचक्रे

मन्दारपुष्पैः सहस्रनामभिः
सहस्रनामभिः
पूजयन् देवतासारूप्यमाप्नोति । तस्यामेव

चतुर्थयामंमे जगन्मोहनचक्रे चम्पकपुष्पैः सहस्रनामभिः पूजयन् देवता-

सायुज्यमाप्नोति । सर्वरात्रिषु जगन्मोहनचक्रे मल्लिकाकुड्मलैः पूजिता श्यामला

कामितार्थप्रदा भवति । ग्रीष्मकाले सर्वरात्रिषु श्रीचन्दनविलिप्तभार्याजगन्मो
-
हनचक्रं पूजयन् सर्वसिद्धिमाप्नोति । दुदूर्वाभिः पूजयन महदायुष्यमश्नुते ।

अष्टम्यां शुक्रवासरयुक्तायां रात्री जगन्मोहनरौ जगन्मोहको चक्रे
 
I
 
राजश्यामलाम्बां
 

श्रीचन्दनेन पूजयन् मानवो गन्धलिप्ता जगन्मोहको भवति । महानवम्यां

शुक्रवासरयुक्तायां रात्रीरौ जगन्मोहनचक्रे कुङ्कुमाक्षतैर्देवतां पूजयित्वा पूजि -

ताक्षतान् राज्ञे निवेदयेत् । राजा दासभावमाप्नोति । त्रयोदश्यां शुक्रवास-

रयुक्तायां रात्रौ भार्याजगन्मोहनचक्रं पूजयन् मानवः कामसुन्दरो भवति ।

चन्द्रदर्शनयुक्तायां द्वितीयायां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे राजश्या-

मलाम्बां श्वेतगन्धाक्षतैः श्वेतपुष्पैश्च पूजयन् साधको देहान्ते राजा भवति ।

सर्वभोगप्रदा सर्वसौभाग्यप्रदा दीर्घायुष्यप्रदा महायोगप्रदा महामङ्गलप्रदा

कायप्रदा श्रीराजश्यामला देवेन्द्रभोगप्रदा भवति । सर्वकाम्यरहस्यपूजान्ते

मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगापवर्गः ।
 
</p>
<ignore>
U 54
 
</ignore>
</page>