This page has been fully proofread once and needs a second look.

<page>
<ignore>
४२४
 
</ignore>
<ignore>
शाक्त-उपनिषदः
 
</ignore>
<p merge-next="true">
महालक्ष्मीप्रदा भवति । शुक्रवारयुतायां पौर्णमास्यां भार्याजगन्मोहनचक्रे

शतसङ्ख्यया श्रीराजश्यामलाम्बां पूजयन् देहान्तरे रम्भासंभोगमश्नुते ।

भाद्रपदे मासि महालक्ष्मीत्व्रतदिनेषु भार्याजगन्मोहनचक्रे श्रीराजश्यामलाम्बां

जाजीकुसुमैः पूजयन् मानवो महदैश्वर्यमाप्नोति । शरत्काले सर्वरात्रिषु भार्या -

जगन्मोहनचक्रे नीलोत्पलैः सहस्रसङ्ख्यया श्यामलां पूजयन् महाभोगमश्नुते ।

शुक्रवारयुतायां पौर्णमास्यां भार्याजगन्मोहनचक्रे श्रीराजश्यामलां पूजयन्

कल्हारैः शचीभोगमश्नुते । हेमन्तकाले सर्वरात्रिषु भार्याजगन्मोहनचक्रे

जवन्तीकुसुमैः सहस्रसङ्ख्यया पूजयन् वरुणदेवेन कनकच्छत्री भवति ।

मार्गशीर्षे पौर्णमास्यां भार्याजगन्मोहनचक्रे कुसुम्भपुष्पैः पूजयन् मानवो

देवेन्द्रैश्वर्यमाप्नोति । माध्यां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे द्वन्द्वमल्लि-

काकुड्मलैः सहस्रसङ्ख्यया पूजयन् मानवो राजस्त्रीसंभोगमाप्नोति । सर्वदा

पुष्पिण्यां भार्यायां जगन्मोहनचक्रे वसन्तपुष्पैः पूजयन् मानवो देवतात्व-

मश्नुते । चतुर्थ्यां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे देवतां श्यामलां

जपन् परशिवत्वमाप्नोति । श्रीराजश्यामलाम्बायाः पञ्चदशस्तोत्राणां पारा -

यणेन देवतासन्तुष्टिर्भवति । मङ्गलप्रदा राजवशंकरी च भवति । देवता-

सान्निध्यमाप्नोति । सन्निधानेन सर्वनिवृत्तिर्भवति । सर्वमङ्गलमाप्नोति । सर्व-

देवनमस्कृतो भवति । सर्वे राजानो वश्या भवन्ति । रम्भादिभिः पूजितो

भवति । स्वर्गभोगमाप्नोति । गुरोरनुज्ञया शुक्रवारे दिवा रात्रौ च चम्पकतैलाद्यैः

कृतस्नातां सर्वालङ्कारभूषितां शुभ्रवस्त्रधरां श्रीचन्दनविलिप्ताङ्गीं कस्तूरीति-

लकोपेतां कुङ्कुमलिप्तकुचभारां पुष्पदामयुक्तधम्मिल्लां ताम्बूलपूरितमुखीं स्वेद-

बिन्दूल्लसन्मुखीं बिम्बोष्ठीं कुन्दरदनां कम्बुकण्ठीं मज्जुहासां यौवनोन्मत्तां

कञ्जलोचनां पृथुनितम्बां राजरम्भोरुं संपूर्णचन्द्रवदनां संभोगेच्छां शुक-

वाणीं सङ्गीतरसिकां कुरवकरसाश्ञ्चितपाणिपादां वशवर्तिनीं भार्योयां पुष्पशय्या-
 
</p>
</page>