This page has been fully proofread once and needs a second look.

<page>
<ignore>
राजश्यामलारहस्योपनिषत्
 
</ignore>
<title>
राजश्यामलारहस्योपनिषत्
 
</title>
<ignore>
४२३
 
</ignore>
<verse>
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
 
</verse>
<p>
ॐ शान्तिः शान्तिः शान्तिः ।
 
</p>
<p>
ॐ रत्नसानु शिखरेष्वासीनं श्रीराजश्यामलारहस्योपनिषद्वेत्तारं मतङ्ग-

ऋषिं गुरुं कृकूचिमारः प्रोवाच । मतङ्ग भगवन् गुरो राजश्यामलारहस्योपनिषदं

मेनुब्रूहि । मतङ्गभगवान् कूचिमारं स होवाच । ते राजश्यामलारहस्यो -

पनिषदमुपदिशामि ।
 
</p>
<p merge-next="true">
अथातः श्रीराजश्यामलारहस्योपनिदं व्याख्यास्यामः । मन्त्रजपाधि-

करणन्यासाधिकरणस्तोत्राधिकरणपूजाधिकरणमैथुनाधिकरणैः पञ्चभिर्ब्राह्मणो

भोगमोक्षमाप्नोति । गुरोरनुज्ञया श्रीराजश्यामलामन्त्रं नित्यं सहस्रसङ्ख्यया

त्रिशनेतेन वाऽष्टाविंशदुत्तरशतेन वा जप्त्वा मन्त्रसिद्धिर्भवति । शुक्रवारे

भार्या जगन्मोहनचक्रे त्रिशतं मन्त्रजपेन मन्त्रसिद्धिः । पुरश्चरणसिद्धिर्भवति ।

नवाशीतिन्यासानां न्यसनेन देवताशरीरी भवति । नवाशीतिन्यासानां

न्यसनेन सर्वदेवैर्नमस्कृतातो भवति । नवाशीतिन्यासानां शरीरंरे न्यसनेन

गन्धर्वकन्याभिः पूजितो भवति । नवाशीतिन्यासानां न्यसनेन देवस्त्री-

भोगमाप्नोति । रम्भा संभागमाप्नोति । नवाशीतिन्यासानां न्यसनेन देवता-

रूपमाप्नोति । देवताशरीरी भृत्वा विमानवान् भवति । विमानमारुह्य
स्वर्गे

स्वर्गं
गच्छति । स्वर्गं प्राप्य तद्भोगमाप्नोति । जगन्मोहनचक्रे पाटलकुसुमैः

सहस्रसङ्ख्यया पूजिता श्रीराजश्यामला कामितार्थप्रदा मङ्गलप्रदा भवति ।

वर्ष श्रावणर्तौ श्रावणे मासि सर्वरात्रिषु भार्याजगन्मोहन चक्रे चम्पककुसुमैः सहस्र-

सङ्ख्यया पूजिता श्रीराजश्यामलाऽऽरोग्यप्रदा भवति । तत्र शुक्रवारे पूजिता
 
</p>
</page>