2026-02-10 02:57:20 by ambuda-bot
This page has not been fully proofread.
राजश्यामलारहस्योपनिषत्
राजश्यामलारहस्योपनिषत्
४२३
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ।
ॐ रत्नसानु शिखरेष्वासीनं श्रीराजश्यामलारहस्योपनिषद्वेत्तारं मतङ्ग-
ऋषिं गुरुं कृचिमारः प्रोवाच । मतङ्ग भगवन् गुरो राजश्यामलारहस्योपनिषदं
मेनुब्रूहि । मतङ्गभगवान् कूचिमारं स होवाच । ते राजश्यामलारहस्यो -
पनिषदमुपदिशामि ।
अथातः श्रीराजश्यामलारहस्योपनिपदं व्याख्यास्यामः । मन्त्रजपाधि-
करणन्यासाधिकरणस्तोत्राधिकरणपूजाधिकरणमैथुनाधिकरणैः पञ्चभिर्ब्राह्मणो
भोगमोक्षमाप्नोति । गुरोरनुज्ञया श्रीराजश्यामलामन्त्रं नित्यं सहस्रसङ्ख्यया
त्रिशनेन वाऽष्टाविंशदुत्तरशतेन वा जत्वा मन्त्रसिद्धिर्भवति । शुक्रवारे
भार्या जगन्मोहनचक्रे त्रिशतं मन्त्रजपेन मन्त्रसिद्धिः । पुरश्चरणसिद्धिर्भवति ।
नवाशीतिन्यासानां न्यसनेन देवताशरीरी भवति । नवाशीतिन्यासानां
न्यसनेन सर्वदेवनमस्कृता भवति । नवाशीतिन्यासानां शरीरं न्यसनेन
गन्धर्वकन्याभिः पूजितो भवति । नवाशीतिन्यासानां न्यसनेन देवस्त्री-
भोगमाप्नोति । रम्भा संभागमाप्नोति । नवाशीतिन्यासानां न्यसनेन देवता-
रूपमानोति । देवताशरीरी भृत्वा विमानवान् भवति । विमानमारुह्य
स्वर्गे गच्छति । स्वर्गं प्राप्य तद्भोगमाप्नोति । जगन्मोहनचक्रे पाटलकुसुमैः
सहस्रसङ्ख्यया पूजिता श्रीराजश्यामला कामितार्थप्रदा मङ्गलप्रदा भवति ।
वर्ष श्रावण मासि सर्वरात्रिषु भार्याजगन्मोहन चक्रे चम्पककुसुमैः सहस्र-
सङ्ख्यया पूजिता श्रीराजश्यामलाऽऽरोग्यप्रदा भवति । तत्र शुक्रवार पूजिता