2026-02-10 02:57:20 by ambuda-bot
This page has not been fully proofread.
४२२
शाक्त-उपनिषदः
चाभाप्य वाचमिति मुखमिति पदमिति स्तम्भयेति वोच्चार्य जिह्वां
वैशारदीं कीलयेति बुद्धिं विनाशयेति प्रोच्चार्य भूमायां वेदाद्यं ततो
यज्ञभूगुहायां योजयेत् । स महाम्तम्भेश्वर: सर्वेश्वरः । स सेनास्तम्भं
करोति । किं बहुना विवस्वद्धतिस्तम्भकर्ता सर्ववातस्तम्भकर्तेति । किं
दिवाकर्षयति । स सर्वविद्येश्वरः सर्वमन्त्रेश्वरो भृत्वा प्रजाया आवर्तनं
त्रैलोक्यस्तम्भिन्याः कुर्यात् । अङ्गमाद्यं द्वारतो गणेशं वटुकं योगिनीं क्षेत्राधीशं
च पूर्वादिकमभ्यर्च्य गुरुपङ्क्तिमीशासुरान्तमन्तः प्राच्यादौ क्रमानुगता
बगला स्तम्भिनी जृम्भिणी मोहिनी वश्या अचला चला दुर्धरा अकल्मषा
आधारा कल्पना कालकर्षिणी भ्रमरिका मदगमना भोगा योगिका पता ह्यष्ट-
दलानुगताः पूज्याः । ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही नारसिंही
चामुण्डा महालक्ष्मीश्च । षड़योनिगर्भाता डाकिनी राकिनी लाकिनी काकिनी
शाकिनी हाकिनी वेद्याद्यस्थिरमायाद्याः समभ्यर्च्य शक्रानियमनिर्ऋतिवरुण-
वायव्यधनदेशानप्रजापतिनागेशाः परिवाराभिमताः स्थिरादिवेदाद्याः सवाहनाः
सदस्त्रका बाह्यतोऽभ्यर्च्य तां योनिं रतिप्रीतिमनोभवा एताः सर्वाः
समाः पीतांशुका ध्येयाः । तदन्तमूलायां बलादिषोडशानुगताः पूज्याः
नीराजनैः । स हैश्वर्ययुक्तो भवति । य एनां ध्यायति स वाग्मी भवति ।
सोऽमृतमश्नुते । सर्वसिद्धिकर्ता भवति । सृष्टिस्थितिसंहारकर्ता भवति ।
स सर्वेश्वरो भवति । स तु ऋद्धीश्वरो भवति । स शाक्तः स वैष्णवः
स गणपः स शैवः । स जीवन्मुक्तो भवति । स संन्यासी भवति । न्यसनं
न्यासः । सम्यङ्न्यासः संन्यासः । न तु मुण्डितमुण्ड: । षट्त्रिंशदस्त्रेश्वरो
भवेत् सौभाग्यार्चनेनेति प्रोतं वेद । ॐ शिवम् ॥
इति पीताम्बरोपनिषत् समाप्ता