2026-02-16 23:00:13 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४२१</ignore>
<p>लालनाच्छ्रीकण्ठरूपस्तुर्या परातीता । एतत्पुटितमातृकापुटितमेतन्मन्त्रं मातृ-
कास्थाने न्यसेदिति पञ्चमी । शिवत्वं गच्छति । स सर्वरूपो भवेत् ।
अथ षष्ठीं कलां न्यसेत् । पूर्णां विद्याराज्ञीं लिपिस्थाने न्यसेद्व्यापयेत् ।
स शिवो भवेत् । स सर्वज्ञत्वं गच्छति । स कविर्भवेत् । स सन्यासी
भवेत् । देवो ह वै भवेत् । विश्वरूपो भवेत् । अयुतं न्यसेत् । ऋषिच्छन्दादि
पूर्ववद्भवेत् । ब्रह्माण्डगोलकेऽपि या जगतीतले तां सर्वां भुनक्ति । यस्याः
स्मरणात् सिद्धो निदेशवर्ती च भवेत् तां न्यसेत् । न्यसनं न्यासः । सम्यक्
न्यासः संन्यासः । न तु मुण्डितमुण्ड: । तस्य देवादयो नमस्यन्तीति प्रोतं
वेद । ॐ शिवम् ॥</p>
<trailer text="END">इत्याथर्वणे सौभाग्यकाण्डे गुह्यषोढान्यासोपनिषत् समाप्ता</trailer>
<title text="START">पीताम्बरोपनिषत्</title>
<p merge-next="true">ॐ अथ हैनां ब्रह्मरन्ध्रे सुभगां ब्रह्मास्त्रस्वरूपिणीमाप्नोति । ब्रह्मास्त्रां
महाविद्यां शाम्भवीं सर्वस्तम्भकरीं सिद्धां चतुर्भुजां दक्षाभ्यां कराभ्यां
मुद्गरपाशौ वामाभ्यां शत्रुजिह्वावज्रे दधानां पीतवाससं पीतालङ्कारसंपन्नां
हढीभूतपीनोन्नतपयोधरयुग्माढ्यां तप्तकार्तस्वरकुण्डलद्वयविराजितमुखाम्भोजां
ललाटपट्टोल्लसत्पीतचन्द्रार्धमनुबिभ्रतीमुद्यद्दिवाकरोद्योतां स्वर्णसिंहासनमध्य-
कमलसंस्थां धिया संचिन्त्य तदुपरि त्रिकोणषट्कोणवसुपत्रवृत्तान्तः षोडश-
दलकमलोपरि भूबिम्बत्रयमनुसंधाय तत्राद्ययोन्यन्तरे देवीमाहूय ध्यायेत् ।
योनिं जगद्योनिं समायमुच्चार्य शिवान्ते भूमाग्रबिन्दुमिन्दुखण्डमग्निबीजं
ततो वरुणाङ्कगुणार्णमत्रियुतं स्थिरामुखि इति सम्बोध्य सर्वदुष्टानामिदं</p>
</page>