2026-02-10 02:57:19 by ambuda-bot
This page has not been fully proofread.
पीताम्बरोपनिषत्
४२१
लालनाच्छ्रीकण्ठरूपस्तुर्या परातीता । एतत्पुटितमातृकापुटितमेतन्मन्त्रं मातृ-
कास्थाने न्यसेदिति पञ्चमी । शिवत्वं गच्छति । स सर्वरूपो भवेत् ।
अथ षष्ठ कलां न्यसेत् । पूर्णा विद्याराज्ञीं लिपिस्थाने न्यसेद्वयापयेत् ।
स शिवो भवेत् । स सर्वज्ञत्वं गच्छति । स कविर्भवेत् । स सन्यासी
भवेत् । देवो ह वै भवेत् । विश्वरूपो भवेत् । अयुतं न्यसेत् । ऋपिच्छन्दादि
पूर्ववद्भवेत् । ब्रह्माण्डगोलकेऽपि या जगतीतले तां सर्वो भुनक्ति । यस्याः
स्मरणात् सिद्धो निदेशवर्ती च भवेत् तां न्यसेत् । न्यसनं न्यासः । सम्यक्
न्यासः संन्यासः । न तु मुण्डितमुण्ड: । तस्य देवादयो नमस्यन्तीति प्रोतं
वेद । ॐ शिवम् ॥
इत्याथर्वणे सौभाग्यकाण्डे गुह्यषोढान्यासोपनिषत समाप्ता
पीताम्बरोपनिषत्
ॐ अथ हैनां ब्रह्मरन्ध्रे सुभगां ब्रह्मास्त्रस्वरूपिणीमाप्नोति । ब्रह्मास्त्रां
महाविद्यां शाम्भवीं सर्वस्तम्भकरीं सिद्धां चतुर्भुजां दक्षाभ्यां कराभ्यां
मुद्गरपाशौ वामाभ्यां शत्रुजिह्वावजे दधानां पीतवाससं पीतालङ्कारसंपन्नां
हढी भूतपीनोन्नतपयोधरयुग्माढ्यां तप्तकार्तस्वरकुण्डलद्वय विराजितमुखाम्भोजां
ललाटपट्टोल्लसत्पीत चन्द्रार्धमनुबिभ्रतीमुद्यद्दिवाकरोद्योतां स्वर्णसिंहासनमध्य-
कमलसंस्थां धिया संचिन्त्य तदुपरि त्रिकोणषट्कोणवसुपत्रवृत्तान्तः षोडश-
दलकमलोपरि भूबिम्बत्रयमनुसंधाय तत्राद्ययोन्यन्तरे देवीमाहूय ध्यायेत् ।
योनिं जगद्योनिं समायमुच्चार्य शिवान्ते भूमाग्रबिन्दुमिन्दुखण्डमझिबीजं
ततो वरुणाङ्कगुणार्णमत्रियुतं स्थिरामुखि इति सम्बोध्य सर्वदुष्टानामिदं