2026-02-26 07:49:35 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४२०</ignore>
<ignore>शाक्त-उपनिषदः</ignore>
<verse>अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः ।
द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ ८३ ॥</verse>
<verse>एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः ।
विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते ।
सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने ॥ ८४ ॥</verse>
<trailer text="END">इति श्रीमहाकालसंहितायां गुह्यकाल्युपनिषत् समाप्ता</trailer>
<title text="START">गुह्यषोढान्यासोपनिषत्</title>
<p merge-next="true">अथ गुह्यां न्यमेत् । शिवो भवेत् । शक्तिरूपो भवेत् । विद्याराज्ञीन्या-
समेवं चरेत् । न जपो न पूजा न साधनं न कालनियमो न दिवा न रात्रिः ।
सर्वकालं न्यमेत् । शक्तियुक्तो भवेत् । यथाधिकारवान् न्यसेत् । पूर्णदीक्षां
लभेत् । षोढारूपो भवेत् । चिन्तामणिर्भवेत् । क्रीं मातृस्थाने न्यसेत् ।
परात् परतरो भवेत् । शिवो भवेदित्येकः । अथ ताराद्वयपुटितां मातृकां
मातृकापुटितां तां मातृकास्थाने न्यसेत । परातीतारूपो भवेदिति द्वितीयः ।
अथ शक्तिकाद्वयपुटितां मातृकां मातृकापुटितां तां न्यसेत् । तुर्यारूपो
भवेत् । तृतीयकलारूपो भवेत् । कालसंकलनात् काली । सहेलं सलीलं वा
स्मरणाद्वरदानेषु चतुरा । तेनेयं दक्षिणा । संबोधनद्वयपुटितां मातृकां
मातृकापुटितं नामद्वयं लिपिस्थाने न्यसेत् । तुर्यात् परारूपो भवेत् । चतुर्थी-
कलारूपो भवेत् । लोकपालसंवादिनी चतुर्थी । अथ पञ्चमीं कलां न्यसेत् ।
पञ्चमीकलारूपो भवेत् । सुभगात्रयं कूर्चवह्निललनां वह्नेस्त्रिकोणदैवतस्य</p>
</page>