This page has been fully proofread once and needs a second look.

<page>
<ignore>
४२०
 
</ignore>
<ignore>
शाक्त-उपनिषदः
 
</ignore>
<verse>
अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः ।

द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ ८३ ॥
</verse>
<verse>
एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः ।

विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते ।

सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने ॥ ८४ ॥
 
</verse>
<trailer>
इति श्रीमहाकालसंहितायां गुह्यकाल्युपनिषत् समाप्ता
 
</trailer>
<title text="START">
गुह्यषोढान्यासोपनिषत्
 
I
 
</title>
<p merge-next="true">
अथ गुह्यां न्यमेत् । शिवो भवेत् । शक्तिरूपो भवेत् । विद्याराज्ञीन्या-

समेवं चरेत् । न जपो न पूजा न साधनं न कालनियमो न दिवा न रात्रिः ।

सर्वकालं न्यमेत् । शक्तियुक्तो भवेत् । यथाधिकारवान् न्यसेत् । पूर्णदीक्षां
 
1
 

लभेत् । षोढारूपो भवेत् । चिन्तामणिर्भवेत् । कींक्रीं मातृस्थाने न्यसेत् ।

परात् परतरो भवेत् । शिवो भवेदित्येकः । अथ ताराद्वयपुटितां मातृकां

मातृकापुटितां तां मातृकास्थाने न्यसेत । परातीतारूपो भवेदिति द्वितीयः ।

अथ शक्तिकाद्वयपुटितां मातृकां मातृकापुटितां तां न्यसेत् । तुर्यारूपो

भवेत् । तृतीयकलारूपो भवेत् । कालसंकलनात् काली । सहेलं सलीलं वा

स्मरणाद्वरदानेषु चतुरा । तेनेयं दक्षिणा । संबोधनद्वयपुटितां मातृकां

मातृकापुटितं नामद्वयं लिपिस्थाने न्यसेत् । तुर्यात् परारूपो भवेत् । चतुर्थी-

कलारूपो भवेत् । लोकपालसंवादिनी चतुर्थी । अथ पञ्चमीं कलां न्यसेत् ।

पञ्चमीकलारूपो भवेत् । सुभगात्रयं कूर्चवह्निललनां वह्नेस्त्रिकोणदैवतस्य
 
</p>
</page>