This page has not been fully proofread.

गुह्यकाल्युपनिषत्
 
निष्कलां निष्क्रियां शान्तां निरवद्यां निरञ्जनाम् ।
बह्वाननकरां देवीं गुह्यामेकां समाश्रये ॥ ७३ ॥
 
इयं हि गुह्योपनिपत सुगूढा
 
या ब्रह्मा देवता विश्वयोनिः ।
 
एतां जपंश्चान्वहं भक्तियुक्तः
 
सत्यं सत्यं ह्यमृतः संबभूव ॥ ७४ ॥
वेदवेदान्तयोर्गुह्यं पुराकल्पे प्रचोदितम् ।
 
नाप्रशान्ताय दातव्यं नाशिष्याय च वै पुनः ॥ ७५ ॥
यस्य देव्यां परा भक्तिर्यथा देव्यां तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्तं महात्मनः ॥ ७६ ॥
 
महाकाल उवाच
 
गुह्योपनिपदित्येषा गोप्यात गोप्यतरा सदा ।
 
चतुर्भ्यश्चापि वेदेभ्य एकीकृत्यात्र योजिता ॥ ७७ ॥
उपदिष्टा च सर्गादो सर्वानिव दिवौकसः ।
एवंविधं च यद्धयानमेवंरूपं च कीर्तितम् ॥ ७८ ॥
सा सपर्या परिज्ञेया विधानमधुना शृणु ।
सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् ॥ ७९ ॥
तदस्म्यहं तृतीयं च महावाक्यत्रयं भवेत ।
आद्यान्येतानि वाक्यानि छन्दांसि परिचक्षते ॥ ८० ॥
देवता गुह्यकाली च रजः सत्त्वतमोगुणाः ।
सर्वेषां प्रणवो बीजं हंसः शक्तिः प्रकीर्तिता ॥ ८१ ॥
मकारश्चाप्यकारश्च ह्युकारश्चेति कीलकम् ।
एभिर्वाक्यत्रयैः सर्वे कर्म प्रोतं विधानतः ॥ ८२ ॥
 
४१९