This page has not been fully proofread.

४१८
 
शाक्त-उपनिषदः
 
तस्या न कार्यं करणं च विद्यते
 
न तत्समा चाप्यधिका च दृश्यते ।
परास्याः शक्तिर्विविधैव श्रूयते
 
स्वाभाविकी ज्ञानबलक्रिया च ॥ ६७ ॥
कश्चिन्न तस्याः पतिरस्ति लोके
 
न चेशिता नैव तस्याश्च लिङ्गम् ।
 
साकारणं कारणकारणाधिपा
 
नास्याश्च कचिज्जनिता न चाधिपः ॥ ६८ ॥
 
एका देवी सर्वभूतेषु गूढा
 
व्याप्नोत्येतत् सर्वभृतान्तरस्था ।
 
कर्माध्यक्षा सर्वभूताधिवासा
 
साक्षिण्येपा केवला निर्गुणा च ॥ ६९ ॥
 
वशिन्येका निष्क्रियाणां बहूनां
 
एकं बीजं बहुधा या करोति ।
 
नानारूपा दशवक्त्रं विधत्ते
 
नानारूपान् याच बाहुन् विभर्ति ॥ ७० ॥
 
नित्या नित्यानां चेतना चेतनानां
 
एका बहूनां विदधाति कामान् ।
 
तत्कारणं साङ्ख्ययोगाधिगम्यं
 
ज्ञात्वा देवीं मुच्यते सर्वपाशैः ॥ ७१ ॥
 
या वै विष्णुं पालने संनियुङ्क्ते
 
रुद्रं देवं संहृतौ चापि गुह्या ।
तां वै देवीमात्मबुद्धिप्रकाशां
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ७२ ॥