This page has been fully proofread once and needs a second look.

<page>
<ignore>
गुह्यका ल्युपनिषत्
 
</ignore>
<ignore>
४१७
 
</ignore>
<ignore>
U 53
 
</ignore>
<verse>
यदा तमस्तत्र दिवा न रात्रिः
 

न सन्न चासद्भगवत्येव गुह्या ।

तदक्षरं तत्सवितुर्वरेण्यं
 

प्रज्ञा च तस्याः प्रसृता परा सा ॥ ६१ ॥
</verse>
<verse>
नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् ।
 

न तस्या: प्रतिमाभिश्च तस्या नाम महद्यशः ॥ ६२ ॥
</verse>
<verse>
न संदृशे तिष्ठति रूपमस्याः
 

न चक्षुषा पश्यति कश्चिदेनाम् ।
 

हृदा मनीषा मनसाभिक्लृकॢप्तां
 

य एनां विदुरमृतास्ते भवन्ति ॥ ६३ ॥
 
</verse>
<verse>
भूयश्च सृष्ट्वा त्रिदशानथेशी
 

सर्वाधिपत्यं कुरुते भवानी ।
 

सर्वा दिशश्चोर्ध्वमधश्र्श्वमधश्च तिर्यक्
 

प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ६४ ॥
</verse>
<verse>
नैव स्त्री न पुमानेपाषा नैव चेयं नपुंसका ।

यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ ६५ ॥
</verse>
<verse>
धर्मावहां पापनुद्रांदां भगेशीं
 

ज्ञात्वात्मस्थाममृतां विश्वमातरम् ।
 

तामीश्वराणां परमां महेश्वरीं
 

तां देवतानां परदेवतां च ।
 
पति

पतिं
पतीनां परमां पुरस्तात्
 

विद्यावतां गुह्यकालीं मनीषाम् ॥ ६६ ॥
 
</verse>
</page>