This page has not been fully proofread.

गुह्यका ल्युपनिषत्
 
४१७
 
U 53
 
यदा तमस्तत्र दिवा न रात्रिः
 
न सन्न चासद्भगवत्येव गुह्या ।
तदक्षरं तत्सवितुर्वरेण्यं
 
प्रज्ञा च तस्याः प्रसृता परा सा ॥ ६१ ॥
नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् ।
 
न तस्या: प्रतिमाभिश्च तस्या नाम महद्यशः ॥ ६२ ॥
न संदृशे तिष्ठति रूपमस्याः
 
न चक्षुषा पश्यति कश्चिदेनाम् ।
 
हृदा मनीषा मनसाभिक्लृप्तां
 
य एनां विदुरमृतास्ते भवन्ति ॥ ६३ ॥
 
भूयश्च सृष्ट्। त्रिदशानथेशी
 
सर्वाधिपत्यं कुरुते भवानी ।
 
सर्वा दिशश्चर्श्वमधश्च तिर्यक्
 
प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ६४ ॥
नैव स्त्री न पुमानेपा नैव चेयं नपुंसका ।
यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ ६५ ॥
धर्मावहां पापनुद्रां भगेशीं
 
ज्ञात्वात्मस्थाममृतां विश्वमातरम् ।
 
तामीश्वराणां परमां महेश्वरीं
 
तां देवतानां परदेवतां च ।
 
पति पतीनां परमां पुरस्तात्
 
विद्यावतां गुह्यकालीं मनीषाम् ॥ ६६ ॥