This page has not been fully proofread.

४१६
 
शाक्त-उपनिषदः
 
मायां तु प्रकृतिं विद्यात् प्रभुं तस्या महेश्वरीम् ।
अस्या अवयवैः सूक्ष्मैर्व्याप्तं सर्वमिदं जगत् ॥ ५५ ॥
या देवानां प्रभवा चोद्भवा च
 
विश्वाधिपा सर्वभूतेषु गूढा ।
हिरण्यगर्भ जनयामास पूर्व
 
सा नो बुद्धया शुभया संयुनक्तु ॥ ५६ ॥
 
सूक्ष्मातिसूक्ष्मं सलिलम्य मध्ये
 
विश्वस्य स्रष्ट्रीमने काननाख्याम् ।
 
विश्वस्य चैकां परिवेष्टयित्रीं
 
ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ ५७ ॥
 
साह्येव काले भुवनस्य गोप्ली
 
विश्वाधिपा सर्वभूतेषु गूढा ।
 
यस्यां मुक्ता ब्रह्मर्षयोऽपि देवा:
 
ज्ञात्वा तां मृत्युपाशाञ्छिनत्ति ॥ ५८ ॥
 
वृतात् परं मण्डमिवातिसूक्ष्मं
 
ज्ञात्वा कालीं सर्वभूतेषु गूढाम् ।
 
कल्पान्ते वै सर्वसंहारकर्त्री
 
ज्ञात्वा गुह्यां मुच्यते सर्वपापैः ॥ ५९ ॥
 
एषा देवी विश्वयोनिर्महात्मा
 
सदा जनानां हृदि सन्निविष्टा ।
 
हृदा मनीषा मनसाभिक्लृप्ता
 
ये तां विदुरमृतास्ते भवन्ति ॥ ६० ॥