This page has been fully proofread once and needs a second look.

<page>
<ignore>गुह्यका ल्युपनिषत्</ignore>
<verse>सर्वाननशिरोग्रीवा सर्वभृतगुहाशया ।
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ ४७ ॥</verse>
<verse>सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।
सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ ४८ ॥</verse>
<verse>सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।
सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ ४९ ॥</verse>
<verse>नवद्वारे पुरे देवी हंसी लीलायतां बहिः ।
ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५० ॥</verse>
<verse>अपाणिपादा जननी ग्रहीत्री
पश्यत्यचक्षुः सा शृणोत्यकर्णा ।
मा वेत्ति वेद्यं न च तस्यास्तु वेत्ता
नामाहुरग्र्यां महतीं महीयसी ॥ ५१ ॥</verse>
<pverse>सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमाः ।
सा चैव शुक्रः सा ब्रह्म सा चापः सा प्रजापतिः ।
सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥ ५२ ॥</pverse>
<verse>ऋचो अक्षरे परमे व्योमन्
यस्यां देवा अधिरुद्रा निषेदुः ।
यस्तां न वेद किमृचा करिष्यति
ये तां विदुस्त इमे समासते ॥ ५३ ॥</verse>
<verse>छन्दांसि यज्ञाः क्रतवो व्रतानि
भृतं भव्यं यच्च वेदा वदन्ति ।
सर्वं देवी सृजते विश्वमेतत्
तस्याश्चान्यो मायया संनिरुद्धः ॥ ५४ ॥</verse>
</page>