This page has not been fully proofread.

गुह्यका ल्युपनिषत्
 
सर्वानन शिरोग्रीवा सर्वभृतगुहाशया ।
 
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ ४७ ॥
सर्वत. पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।
 
सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ ४८ ॥
सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।
 
सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ ४९ ॥
नवद्वारे पुरे देवी हंसी लीलायतां बहिः ।
 
ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५० ॥
अपाणिपादा जननी ग्रहीत्री
 
पश्यत्यचक्षुः सा शृणोत्यकर्णा ।
 
मा वेत्ति वेद्यं न च तस्यास्तु वेत्ता
 
नामाहुरख्यां महतीं महीयसी ॥ ५१ ॥
 
सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमाः ।
सा चैव शुक्रः सा सा चापः सा प्रजापतिः ।
ब्रह्म
 
४१५
 
सा चैव स्त्री सा च पुमान सा कुमारः कुमारिका ॥ ५२ ॥
 
ऋची अक्षरे परमे व्योमन
 
यस्यां देवा अधिरुद्रा निषेदुः ।
 
यस्तां न वेद किमृचा करिष्यति
 
ये तां विदुस्त इमे समासते ॥ ५३ ॥
 
छन्दांसि यज्ञाः क्रतवो व्रतानि
 
भृतं भव्यं यच्च वेदा वदन्ति ।
 
सर्व देवी सृजते विश्वमेतत्
 
तस्याश्चान्यो मायया संनिरुद्धः ॥ ५४ ॥