This page has not been fully proofread.

४१४
 
शाक्त- उपनिषदः
 
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ ३९ ॥
 
सैवैतत ॥
 
एषैवालम्बनं श्रेष्ठं सैपैवालम्बनं परम् ।
 
एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ४० ॥
 
इन्द्रियेभ्यः परार्थार्थेभ्यश्च परं मनः ।
 
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ ४९ ॥
 
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
 
पुरुषात् परा देवी सा काष्ठा सा परा गतिः ॥ ४२ ॥
यथोदकं गिरौ सृष्टं समुद्रेषु विधावति ।
 
एवं धर्मान् पृथक् पश्यंस्तामेवानुविधावति ॥ ४३ ॥
एका गुह्या सर्वभूतान्तरात्मा
 
एकं रूपं बहुधा या करोति ।
तामात्मस्थां येऽनुपश्यन्ति धीराः
 
तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४४ ॥
 
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमभिः ।
तामेव भान्तीमनुभाति सर्व
 
तस्या भासा सर्वमिदं विभाति ॥ ४५ ॥
 
यस्याः परं नापरमस्ति किञ्चित्
 
यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् ।
 
वृक्ष इव स्तब्धा दिवि तिष्ठत्येका
 
यदन्तः पूर्णामवगत्य पूर्णः ॥ ४६ ॥