2026-02-26 07:52:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>गुह्यकान्युपनिषत्</ignore>
<verse>ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः ।
प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥</verse>
<verse>समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।
विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ ३१ ॥</verse>
<verse>जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥</verse>
<pverse>सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति ।
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३ ॥</p>
<pverse>
<verse>तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥</pverse>
<verse>ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् ।
ज्योतिर्मयीं शरीरेऽन्तर्ध्यायमानां महात्मभिः ॥ ३५ ॥</verse>
<verse>बृहच्च तद्दिव्यमचिन्त्यरूपं
सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहास्ति किञ्चित्
पश्येत्त्वहैतन्निहितं गुहायाम् ॥ ३६ ॥</verse>
<verse>न चक्षुषा गृह्यते नापि वाचा
नान्यैर्योगैर्न हि सा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वः
ततस्तु तां पश्यति निष्कलां च ॥ ३७ ॥</verse>
<verse>यथा नद्यः स्यन्दमानाः समुद्रे
गच्छन्त्यस्तं नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्त:
परात् परां जगदम्बामुपैति ॥ ३८ ॥</verse>
<ignore>४१३</ignore>
</page>
<ignore>गुह्यकान्युपनिषत्</ignore>
<verse>ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः ।
प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥</verse>
<verse>समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।
विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ ३१ ॥</verse>
<verse>जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥</verse>
<
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३ ॥</
<p
<verse>तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥</