This page has not been fully proofread.

गुह्यकान्युपनिषत्
 
ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः ।
 
प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥
समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।
विसृज्येमानि सर्गादौ त्वं प्रकाशय मे ततः ॥ ३१ ॥
जङ्गमानि विधायान्धं विशत्यप्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥
सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति ।
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३
तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥
ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् ।
ज्योतिर्मयीं शरीरेऽन्तर्ध्यायमानां महात्मभिः ॥ ३५ ॥
बृहच्च तद्दिव्यमचिन्त्यरूपं
 
सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
दूरात् सुदूर तदिहास्ति किञ्चित्
 
पश्येत्त्वहैतन्निहितं गुहायाम् ॥ ३६ ॥
 
न चक्षुषा गृह्यते नापि वाचा
 
नान्यैर्योर्न हि सा कर्मणा वा ।
 
ज्ञानप्रसादेन विशुद्धसत्त्वः
 
ततस्तु तां पश्यति निष्कलां च ॥ ३७ ॥
 
यथा नद्यः स्यन्दमानाः समुद्रे
 
गच्छन्त्यस्तं नामरूपे विहाय ।
 
तथा विद्वान् नामरूपाद्विमुक्त:
 
परात् परां जगदम्बामुपैति ॥ ३८ ॥
 
४१३