2026-02-26 07:26:08 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४१२
</ignore>
<ignore>शाक्त-उपनिषदः
</ignore>
<verse>विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवी पाठ उच्यते ॥ १८ ॥
</verse>
<verse>तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥
</verse>
<verse>वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।
कलाः काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥
</verse>
<verse>पक्षा मासास्तथा चाव्दाश्चत्वारोऽपि युगाः प्रिये ।
कफोणिर्मणिबन्धश्च तद्दूरुकटिबन्धनाः ॥ २१ ॥
</verse>
<verse>प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्युर्जिह्नावात्रयमिदं स्मृतम् ॥ २२ ॥
</verse>
<verse>आब्रह्मस्तम्बपर्यन्तं तनुमम्स्याः प्रचक्षते ।
प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥
</verse>
<verse>ज्ञेयः पार्श्वपरीवर्तीतो महाकल्पान्तरोद्भवः ।
विराडूड्रूपस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ २४ ॥
</verse>
<verse>तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तिता ।
तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥
</verse>
<verse>यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामोषध्यः संभवन्ति गिलन्त्यपि ॥ २६ ॥
</verse>
<verse>पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्नेते विलीयन्ते तथा तस्यां जगत्यपि ॥ २७ ॥
</verse>
<verse>ज्वलतः पावकाद्यद्वत् स्फुलिङ्गाः कोटिकोटिशः ।
निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ २८ ॥
</verse>
<verse>ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः ।
अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ २९ ॥
</verse>
</page>
<ignore>४१२
<ignore>शाक्त-उपनिषदः
<verse>विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवी पाठ उच्यते ॥ १८ ॥
<verse>तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥
<verse>वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।
कलाः काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥
<verse>पक्षा मासास्तथा चाव्दाश्चत्वारोऽपि युगाः प्रिये ।
कफोणिर्मणिबन्धश्च त
<verse>प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्युर्जिह्
<verse>आब्रह्मस्तम्बपर्यन्तं तनुम
प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥
<verse>ज्ञेयः पार्श्वपरीवर्
विरा
<verse>तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तिता ।
तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥
<verse>यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामोषध्यः संभवन्ति गिलन्त्यपि ॥ २६ ॥
<verse>पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्