2026-02-10 02:57:18 by ambuda-bot
This page has not been fully proofread.
४१२
शाक्त-उपनिषदः
विद्युदृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवी पाठ उच्यते ॥ १८ ॥
तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥
वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।
कलाः काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥
पक्षा मासास्तथा चाव्दाश्चत्वारोऽपि युगाः प्रिये ।
कफोणिर्मणिबन्धश्च तद्रुकटिबन्धनाः ॥ २१ ॥
प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्युर्जिह्नात्रयमिदं स्मृतम् ॥ २२ ॥
आब्रह्मस्तम्बपर्यन्तं तनुमम्याः प्रचक्षते ।
प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥
ज्ञेयः पार्श्वपरीवर्ती महाकल्पान्तरोद्भवः ।
विराडूपस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ २४ ॥
तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तिता ।
तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥
यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामोषध्यः संभवन्ति गिलन्त्यपि ॥ २६ ॥
पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्ने विलीयन्ते तथा तस्यां जगत्यपि ॥ २७ ॥
ज्वलतः पावकाद्यद्वत् स्फुलिङ्गाः कोटिकोटिशः ।
निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ २८ ॥
ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः ।
अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ २९ ॥