This page has not been fully proofread.

गुह्यका ल्युपनिषत्
 
तास्ते वदामि यत प्रोक्तं ध्यानं कुर्वन्ति देवताः ।
विराट्ध्यानं हि तज्ज्ञेयं महापातकनाशनम् ॥ ६ ॥
ब्रह्माण्डाहरु हि महत्तत्त्वमहङ्कृतिः ।
रूपाणि पञ्च तन्मात्राः पुरुषः प्रकृतिर्नव ॥ ७ ॥
महापातालपादान्तलम्बा तम्या जयं स्मरत् ।
ब्रह्माण्डा कपालं हि शिरस्तम्या विभावयेत् ॥ ८ ॥
देवलोक ललाटं च पविशलक्षयोजनम् ।
मेरु: सीमन्तदण्डोsस्या ग्रस्नसमाकुलः ॥ ९ ॥
अन्तर्वीथीं नागवीथी भ्रुवावस्याः प्रकीर्तिते ।
शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ १० ॥
लोहितं तिलकं ध्यायेन्नासा मन्दाकिनी तथा ।
चक्षुषी चन्द्रसूर्यौ च पक्ष्माणि किरणास्तथा ॥ ११ ॥
गण्डौ स्यातां तपोलोकसत्यलोको यथाक्रमम् ।
जनोलोकमहर्लोको कपोलों परिकीर्तिता ॥ १२ ॥
स्यातां हिमाद्रिकैलासी तम्या देव्यास्तु कुण्डले ।
स्वर्लोकश्च भुवर्लोको देव्या ओष्ठा मतौ ॥ १३ ॥
दिक्पतीनां ग्रहाणां च लोकाश्राथ रदावली ।
गन्धर्वसिद्धसाध्यानां पितृन्निररक्षसाम् ॥ १४ ॥
पिशाचयक्षाप्सरसां मरीचीयायिनां तथा ।
विद्याधराणामाज्योप्मपाणां सामकपायिनाम ॥ १५ ॥
सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली ।
मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ १६ ॥
ब्रह्मलोको गलः प्रोक्तो वायवः प्राणरूपिणः ।
 
वनस्पतय ओपध्यो लोमानि परिचक्षते ॥ १७ ॥
 
४११